________________
[ २३५
३६,
जीवाजीवविभक्त्याख्यमध्ययनम् ]
प्रपञ्चो विस्तारस्तत उन्मुक्ता भवप्रपञ्चोन्मुक्ता भवभ्रमणरहिता इत्यर्थः । पुनः कीदृशाः ? सिद्धिं वरगतिं गताः, सिद्धिनाम्नी प्रधानगतिं प्राप्ताः । अत्र हि सिद्धानां भवप्रपञ्चोन्मुक्ता इति विशेषणेनाऽचलस्वभाव उक्तोऽस्ति ॥ ६३ ॥
अथ सिद्धानां कियत्यवगाहना भवतीत्याह
उस्सेहो जस्स जो होइ, भवंमि चरमंमि य । तिभागहीणा तत्तो य, सिद्धाणोगाहणा भवे ॥ ६४ ॥
यस्य मनुष्यस्य चरमे भवेऽन्त्ये भवे मोक्षगमनार्हे जन्मनि यादृश उत्सेधो भवति, देहप्रमाणं भवति, ततो देहप्रमाणात्सिद्धानां मोक्षप्राप्तानां तृतीयभागहीनाऽवगाहना भवेत् ॥ ६४ ॥ अथ सिद्धानां कालत आह
गत्तेण य साईया, अपज्जवसियावि य ।
पुत्त्रेण अणाईया, अपज्जवसियावि य ॥ ६५ ॥
ते सिद्धा एकत्वेनैकस्य कस्यचिन्नामग्रहणापेक्षया सादिकाः, अमुको मुनिस्तदा सिद्ध इत्यादि सादिकाः सिद्धा भवन्ति । च पुनस्ते सिद्धा अपर्यवसिता - अन्तरहिताः, मोक्षगमनादनन्तरमन्त्रागमनाऽभावादन्तरहिताः, ते सिद्धाः पृथक्त्वेन बहुत्वेन सामस्त्यापेक्षयाऽनादयोऽनन्ताश्च ।। ६५ ॥
पुनस्तेषामेव स्वरूपमाह
अरूविणो जीवघणा, नाणदंसणसन्निया ।
अउलं सुहं संपत्ता, उवमा जस्स नत्थि उ ॥ ६६ ॥
ते सिद्धा अरूपिणो वर्तन्ते, रूपरहितत्वेन रसगन्धस्पर्शानामप्यभावः, लेश्यारहिता अपि । पुनः कीदृशाः सिद्धाः ? जीवघनाः, जीवाश्च ते घनाश्च जीवघनाः, जीवाः सच्चिदुपयोगयुक्ताः घना अन्तररहितत्वेन जीवप्रदेशमयाः, पुनः कीदृशाः ? ज्ञानदर्शनसंज्ञिताः, केवलज्ञानकेवलदर्शने एव संज्ञा जाता येषां ते ज्ञानदर्शनसंज्ञिताः, ज्ञानदर्शनोपयोगवन्त इत्यर्थः । यतः - कर्मक्लेशविमोक्षाच्च मोक्षे सुखमनुत्तरम् ॥ ६६ ॥
अथ सिद्धानां क्षेत्रस्वरूपमाह
लोएगदेसे ते सव्वे, नाणदंसणसन्निया । संसारपारनिच्छिन्ना, सिद्धि वरगइं गया ॥ ६७ ॥
ते सिद्धाः सर्वलोकैकदेशे तिष्ठन्ति इत्यनेन "मुक्ताः सर्वत्र तिष्ठन्ति, व्योमवत्पापवर्जिताः ।” इति सर्वगतत्वमतमपास्तम् । तथात्वे सति सर्वत्र वेदनादिप्रसङ्गात् । पुनः