________________
[ उत्तराध्ययनसूत्रे - भाग - २
सेषत्प्राग्भारा पृथ्वी कीदृशी वर्तते ? तत्स्वरूपमाह - सेषत्प्राग्भारा योजनानां पञ्चचत्वारिंशच्छतसहस्राण्यायता दीर्घा वर्तते पञ्चचत्वारिंशल्लक्षयोजनदीर्घास्तीत्यर्थः । च पुनस्तावन्तिकं तावत्प्रमाणेव विस्तीर्णा वर्तते, विस्तारेणापि पञ्चचत्वारिंशल्लक्षयोजनप्रमाणेति भावः । तथा तस्या ईषत्प्राग्भाराया इति शेषः, 'परिरओ' इति परिधिस्त्रिगुणः साधिको ज्ञेयः । तदैककोटिद्विचत्वारिंशल्लक्षत्रिंशत्सहस्त्रद्विशतैकोनपञ्चाशद्योजनानि किञ्चिदधिकानि, एतावांस्तस्याः सर्वः परिधिर्भवति ॥ ५८ ॥
२३४]
पुनः कथंभूता सा ? अष्टयोजनबाहल्या, अष्ट योजनानि बाहल्यं यस्याः साष्टयोजनबाहल्या, सेषत्प्राग्भारा मध्यप्रदेशे इयत्प्रमाणस्थौल्यवती जिनैर्व्याख्याता । चरिमान्तेषु सर्वदिग्वर्तिषु पर्यन्तप्रदेशेषु परिहीयमाना (हानिश्चात्र विशेषाऽनभिधानेऽपि प्रतियोजनमङ्गुलपृथक्त्वं दृष्ट्व्या) परिसमन्तात् हायन्तीति क्षीयमाना-पत्तलाभवन्ति, मक्षिकायाः पत्र-मक्षिकापिच्छं, तस्मान्मक्षिकापत्रादपि तनुतराऽतिसूक्ष्मेत्यर्थः ॥ ५९ ॥
पुनः कीदृशी सा पृथ्वी ? अर्जुन सुवर्णमयी श्वेतकाञ्चनस्वरूपा, पुनः सा पृथ्वी स्वभावेन निर्मला, पुनः सा कीदृशी ? उत्तानकमूर्ध्वमुखं यच्छत्रकं तद्वत्संस्थितं संस्थानं यस्याः सोत्तानच्छत्रकसंस्थिता, सा जिन वरैर्व्याख्याता भणिता । पूर्वं सामान्येन छत्रसंस्थितेत्युक्त्वेह तूत्तानच्छत्रसंस्थितेत्युक्तम् । तद्विशेषत इति न पुनरुक्तिदोषः । अथवान्यकर्तृकेयं गाथा ॥ ६० ॥
पुनः सा पृथ्वी शङ्खाङ्ककुन्दसङ्काशा, शङ्खाङ्ककुन्दानि प्रतीतानि, तत्सङ्काशा वर्णतस्तत्तुल्या, अत एव पाण्डुरा धवला निर्मला निष्कलङ्का शुभा भव्या सा पृथ्वी सीताभिधा वर्तते । सीतेत्यपरं नाम, तस्याः सीताभिधायाः पृथिव्या उपरीत्यनेन सिद्धशिलाया उपरिष्टादेकं योजनं लोका-न्तस्तु व्याख्यातः ॥ ६१ ॥
इति सिद्धशिलास्वरूपमुक्त्वा तत्र सिद्धाः क्व तिष्ठन्तीत्याहजोयणस्स उ जो तत्थ, कोसो उवरिमो भवे ।
तस्स कोसस्स छब्भाए, सिद्धाणोगाहणा भवे ॥ ६२ ॥
योजनस्य तत्रोपरिम-उपरिवर्ती यः क्रोशो भवेत्तस्य क्रोशस्य षष्ठे भागे, इत्यनेन सत्रिभागत्रयस्त्रिंशदधिकधनुः शतत्रितयरूपे (३३३ ) धनुः परिमाणे सिद्धानां तत्रावगाहनाऽवस्थितिर्भवेदित्यर्थः ॥ ६२ ॥
पुन: सिद्धानां स्वरूपमाह
तत्थ सिद्धा महाभागा, लोयग्गमि पट्टिया । भवप्पवंचउम्मुक्का, सिद्धिं वरगई गया ॥ ६३ ॥
तत्र - तस्मिन् लोकाग्रे सिद्धाः प्रतिष्ठिताः सन्ति । कीदृशाः सिद्धाः ? महाभागा अचिन्त्यशक्तिमन्तः, पुनः कीदृशाः ? भवप्रपञ्चोन्मुक्ताः, भवा-नारकादयोऽवतारास्तेषां १ अङ्क - श्वेतमणिविशेष ।