Book Title: Uttaradhyayan Sutram Part 02
Author(s): Vajrasenvijay, Bhagyeshvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 274
________________ ३६, जीवाजीवविभक्त्याख्यमध्ययनम् ] [२६१ मनुजा द्विविधभेदाः सन्ति, तान् भेदान् 'मे' मम कीर्तयतस्त्वं श्रृणु । मनुजामनुष्याः सम्मूर्छिमास्तथा गर्भश्रुत्क्रान्तिकाः, गर्भजा मनःसहिताः, सम्मूर्छिमा मनोरहिताश्चतुर्दशस्थानेषूत्पन्नाः ॥ १९७ ॥ गब्भवतंतिया जे उ, तिविहा ते वियाहिया। अकम्मकम्मभूमा य, अंतरद्दीवगा तहा ॥१९८ ॥ ये तु गर्भव्युत्क्रान्तिकास्ते मनुष्यास्त्रिविधा व्याख्याताः। ते के ? अकर्मकर्मभूमिगा अन्तरद्वीपकाश्चः, अकर्मभूमौ भवा अकर्मभौमा-अकर्मभूम्युत्पन्नाः, कर्मभूमौ भवाः कर्मभौमाः-कर्मभूम्युत्पन्नाः, तथान्तरद्वीपगाः ॥ १९८ ॥ पन्नरस तीसइविहा, भेया अट्ठावीसई । संखा उकमसो तेसिं, इइ एसा वियाहिया ॥१९९ ॥ इत्यमुना प्रकारेणैतेषां पूर्वोक्तानां कर्मभूम्यकर्मभूम्यन्तरद्वीपानां सङ्ख्या क्रमशोऽनुक्रमेण व्याख्याता।सा का सङ्ख्येत्युच्यते-विधशब्दस्योभयत्र सम्बन्धो ज्ञेयः । पञ्चदशविधाः कर्मभूमिजाः, भरतैरावतमहाविदेहानां प्रत्येकं पञ्चपञ्चसङ्ख्याकत्वात् पञ्चदशसङ्ख्यात्वं भवति । त्रिंशद्विधा अकर्मभौमाः, अत्र हैमवतहरिवर्षरम्यक्हैरण्यवतदेवकुरूत्तरकुरुरूपाणां षण्णामप्यकर्मभूमीनां प्रत्येकं पञ्चसङ्ख्यागुणितानां त्रिंशत्सङ्ख्यात्वं सम्भवति । इह च क्रमश इत्युक्तेऽपि गणनावसरे क्रमभङ्गो विहितः, पूर्वमकर्मभूमिसङ्ख्या विहाय कर्मभूमिसङ्ख्या प्रतिपादिता, तत्तु कर्मभूमिजानां मनुष्याणां मुक्तिसाधकत्वेन प्राधान्यख्यापनात्पूर्वकथनं न दोषायेति । तथान्तरद्वीपानामष्टाविंशतिभेदाः, ते चान्तरद्वीपाः क्षुल्लहिमवति पर्वते पूर्वस्यां दिश्यपरस्यां दिशि च जम्बूद्वीपवेदिकान्तात्परतः प्रत्येकं द्वे द्वे दंष्ट्रे विदिगभिमुखे विनिर्गते स्तः । तद्यथा-पूर्वस्यामेकैशान्यभिमुखी दंष्ट्रा, द्वितीयाग्नेय्यभिमुखी, पश्चिमायामेका नैऋत्याभिमुखी, द्वितीया वायव्याभिमुखी, एवं चतसृषु विदिक्ष्वभिमुखीषु दंष्ट्रासु प्रत्येक त्रीणि त्रीणि योजनशतानि लवणसमुद्रमतिक्रम्य विदिक्ष्वेकैकभावेन चत्वारोऽन्तरद्वीपा: प्रत्येकं योजनशतत्रयविस्ताराः सन्ति । ततस्तत्परतस्तास्वेव चतसृषु दंष्ट्रासु प्रत्येकमेकैकशतयोजनवृद्ध्या वर्धिताः षट् षट् अन्तरद्वीपाः सन्ति । ते च द्वीपाश्चतुर्भिर्गुणिताश्चतुर्विंशतिसङ्ख्याका भवन्ति । ततश्चाद्यान्तरद्वीपचतुष्कसहिता अष्टाविंशतिरन्तरद्विपाः सन्ति । एवं शिखरिणि पर्वतेऽष्टाविंशतिर्जेयाः । सर्वसाम्याच्चैषां भेदेनाऽविवक्षितत्वात्सूत्रेऽष्टाविंशतिसङ्ख्याकथनं विरोधाय न भवति । तेष्वन्तरद्वीपेषु युगलर्मिका वसन्ति, तच्छरीरमानादि कथ्यते–अष्टधनुःशतोच्छायाः,

Loading...

Page Navigation
1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326