Book Title: Uttaradhyayan Sutram Part 02
Author(s): Vajrasenvijay, Bhagyeshvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 270
________________ ३६, जीवाजीवविभक्त्याख्यमध्ययनम्] [२५७ ते सर्वे जलचरा जीवा लोकैकदेशे व्याख्याताः, जलस्थानेष्वेव न तु सर्वत्र, इतोऽनन्तरं तेषां जलचरजीवानां तु कालविभागं चतुर्विधं वक्ष्ये ॥ १७५ ॥ संतई पप्पणाईया, अपज्जवसियावि य । ठिई पडुच्च साईया, सपज्जवसियावि य ॥१७६ ॥ ते जलचरजीवाः सन्ततिं प्राप्य-प्रवाहमार्गमाश्रित्याऽनादयोऽपर्यवसिताश्च वर्तन्ते । स्थितिं प्रतीत्य-भवस्थिति कायस्थितिं चाश्रित्य सादयः सपर्यवसिताश्च सन्तीति भावः ॥१७६॥ इक्का य पुव्वकोडी, उक्कोसेण वियाहिया । __ आउठिई जलयराणं, अंतोमुहत्तं जहन्निया ॥१७७ ॥ जलचराणां मत्स्यादीनां जीवानामुत्कृष्टेनायुःस्थितिरेका पूर्वकोटी व्याख्याता। पूर्वस्य तु परिमाणमेतत्-सप्ततिकोटिलक्षवर्षाणि, षट्पञ्चाशत्सहस्रकोटिवर्षाणि, एतैर्वधैः पूर्वं भवति । जघन्यिकायुःस्थितिश्चैतेषामन्तर्मुहूर्तमेव व्याख्याता ॥ १७७ ॥ अथ जलचराणां कायस्थितिमाह पुव्वकोडीपुहुत्तं तु, उक्कोसेण वियाहिया । कायठिई जलयराणं, अंतोमुहत्तं जहन्निया ॥१७८ ॥ जलचराणां कायस्थितिरुत्कृष्टतः पूर्वकोटिपृथक्त्वं व्याख्याता । यदा जलचरजीवो मृत्वा पुनः पुनर्जलचरयोनावेवोत्पद्यते, तदा पूर्वकोटिपृथक्त्वं यावदुत्पद्यते । पृथक्त्वं द्वाभ्यामारभ्य नवावं यावत्पृथक्त्वमिति सिद्धान्ताङ्कसंज्ञाऽस्ति । द्वाभ्यां पूर्वकोटिभ्यामारभ्य यावन्नवकोटिं यावज्जलचरो जीवो मृत्वा मृत्वा जलचरयोनावुत्पद्यते इत्यर्थः । जघन्यतस्त्वन्तर्मुहूर्तमेव कायस्थितिर्व्याख्याता ॥ १७८ ॥ अथ कालान्तरमाह अणंतकालमुक्कोसं, अंतोमुहुत्तं जहन्नयं । विजढम्मि सए काए, जलयराणं तु अंतरं ॥ १७९ ॥ जलचराणां स्वकीये काये त्यक्ते सत्यन्यत्रोत्पद्य पुनः स्वकाये उत्पद्यते, तदा कियकालान्तरं भवति ? तदुच्यते-उत्कृष्टतोऽनन्तं कालान्तरं भवति, यतो हि चेज्जलचरो निगोदत्वेनोत्पद्यते, तदा निगोदस्यानन्तकालस्य स्थितिरस्ति, जघन्यतस्त्वन्तर्मुहूर्तमेव कालान्तरं ज्ञेयम् ॥१७९ ॥ एएसिं वन्नओ चेव, गंधओ रसफासओ । संठाणादेसओ वावि, विहाणाई सहस्ससो ॥ १८० ॥

Loading...

Page Navigation
1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326