________________
सोमसेनभट्टारकविरचित। तीय निर्दोष उन्नति करता हुआ गृहीशिता अर्थात् घरका स्वामीपन स्वीकार करे । भावार्थ-कुलचर्या नामकी क्रियाके अनन्तर उक्त कथनानुसार घरका स्वामीपन धारण करना गृहीथिता नामकी क्रिया है ॥ ११ ॥ .
प्रशान्ति क्रियाका स्वरूप । ... लध्वा सूनुमतोऽनुरूपमुचितं सोऽयं गुणानां गृहं साक्षादात्मभरक्षमं शुभतया देदीप्यमानं सदा। तत्रारोपितसद्गृहस्थपदवीभारः प्रशान्तिप्रियः
संसाराङ्गसुभोगनिःस्पृहमतिः स्वाध्यायदीपात्तपः ॥ १२ ॥ इसके अनंतर वह पूर्वोक्त गृहस्थ, अपने सदृश, मुणोंका खजाना, अपने घरका भार धारण करनेमें समर्थ और शुभ चिन्होंसे अलंकृत योग्य पुत्रको अपनी गृहस्थीका भार सौंप दे और आप स्वयं संसारके कारण भोगोंसे निस्पृह चित्त होकर स्वाध्याय और तपश्चरण करता रहे । इसीका नाम प्रशान्ति क्रिया है । भावार्थ-अपनी गृहस्थीका भार तो अपने योग्य पुत्रको सौंप दे और आप स्वयं घरमें रहकर स्वाध्याय और व्रतोपवासादिका अभ्यास करता रहे, सांसारिक भोगोंकी लालसाको भी छोड़ दे। इस तरह शांतिपूर्वक कितना ही काल अपने घरमें ही बितावे । इसीका नाम प्रशान्ति क्रिया है॥ १२ ॥
गृहत्याग क्रिया। गृहाश्रमे स्वं बहुमन्यमानः कृतार्थमेवोधतबुद्धिरास्ते । त्यागे गृहस्यैष विधिः क्रियायाः सिद्धार्थकानां पुरतो विधेयः ॥ १३ ॥ आहूय सर्वानपि सम्मताँश्च तत्साक्षि पुत्राय निवेद्य सर्वम् । गृहे न्यसेच्चापि कुलक्रमोऽयं पाल्यस्त्वयाऽस्मत्कपरोक्षतोऽङ्ग !॥ १४ ॥ त्रिधा कृतं द्रव्यमिहत्थमेतदस्माकमत्यर्थमतो नियोज्यम् । धर्मस्य कार्याय तथांश एको देयो द्वितीयः स्वगृहव्ययाय ॥ १५॥ परस्तृतीयः सहजन्मनां वा समं विभागाय विचारणीयः। पुनः समस्तस्य च संविभागे पुत्रैः समस्त्वं सहसैवमुक्त्वा ॥ १६ ॥ ज्येष्ठः स्वयं सन्ततिमेकरूपामस्माकमप्याददतूपनीय । श्रुतस्य वृत्तेरथवा क्रियाया मन्त्रस्य न्यासाद्विधिविस्वतन्द्रः॥ १७ ॥ कुलस्य चाम्नाय इहानुपाल्यो गुरुश्च देवोऽपि सदार्चनीयः। इत्येवमयं ह्यनुशिष्य पुत्रं ज्येष्ठं त्यजेन्मोहकृतं विकारम् ॥ १८ ॥
दीक्षामुपादातुमतो जनोऽसौ गृहं स्वकीयं स्वयमुत्सृजेच्च । 'कामार्थचित्तं परिहाय धर्मध्यानेन तिष्ठेत्कतिचिदिनानि ॥ १९ ॥