________________
.१५७
स्थाबादमञ्जरौ। नाभेदभेदानुभयैर्घटेते। ततस्तटादर्शिशकुन्तपोतन्यायात्त्वदतानि परे श्रयन्तु ॥१६॥
सा शाक्यपरिकल्पिता त्रुटितमुक्तावलौकल्पानां परस्परविशकलितानां क्षणानामन्योन्यानुस्मृतप्रत्ययजनिका एकतन्तुस्थानौया सन्तानापरपर्याया वासना वासनेति पूर्वज्ञानजनितामुतरजाने शक्तिमाहुः साँच क्षणसन्ततिस्तद्दर्शनप्रसिद्धा प्रदीपकलिकावन्न वनवोत्पद्यमाना ऽपरापरसदृशक्षणपरंपरा एते हे अपि अभेदभेदानुभयैनं घटेते न तावदभेदेन तादात्म्येन ते घटते तयोहि अभेदे वासना वा स्यात् क्षणपरंपरा वा न हयं यदि यस्मादभिन्नं न ततः पृथगुपलभ्यते यथा घटात् घटस्वरूपं केवलायां वासनायामन्वयिखीकारः बास्थाभावे च किं तया वासनीयमस्तु इति तस्या अपि न खरूपमवतिष्टते क्षणपरंपरामावाङ्गीकरणे च प्राञ्च एव दोषाः न च भेदेन ते युज्येते सा हि भिन्ना वासना क्षणिका स्यादक्षिणका वा क्षणिका चेतहि क्षणेभ्यस्तसाः पृथक्कल्पनं व्यर्थम् अक्षणिका चेदन्वयिपदार्थाम्युपगमेनागमबाधस्तथा च पदार्थान्तराणां क्षणिकत्वकल्पनाप्रयासो व्यसनमात्रम् अनुभयपक्षेणापि न घटते स हि कदाचिदेवं ब्रूयात् नाहं वासनायाः क्षणश्रेणितो ऽभेदं