Book Title: Syadvad Manjari
Author(s): Damodarlal Goswami
Publisher: Chaukhamba Sanskrit Granthmala
View full book text
________________
स्याहादमञ्जरी। २.१ भिप्रायेणैव पर्यायध्वनौनां प्रयोगात् यथा चायं पर्यायशब्दानामेकमर्थमभिप्रेति तथा तटस्तटी तटमिति विरुवलिङ्गालक्षगाधर्माभिसंबन्धादस्तुनी भेदं चाभिधत्ते न हि विरुद्ध धर्मकृतं भेदमनुभवतो वस्तनो विरुद्ध धर्मायोगी युक्तः एवं संख्याकालकारकपुरषादिभेदादपि, भेदोऽभ्यपगन्तव्यः तत्र संख्या एकत्वादिः कालोऽ तीतादिः कारक कर्वादिः पुरुषः प्रथमपुरुषादिः समभिरूढस्तु पर्यायशब्दानां प्रविभक्तमेवार्थमभिमन्यते तद्यथा इन्दनादिन्द्रः परमैश्वर्यमिन्द्रशब्दवाच्यं परमार्थतस्तहत्यर्थे अतति पुनरूपचारतो न वा कश्चित् तहान् सर्वशब्दानां परस्परविभक्तार्थप्रतिपादिततया आश्रयायिभावेन प्रटत्यसिद्धेः एवं शकनाच्छ क्रः पूर्दारणात्परन्दर इत्यादिभिन्नार्थत्वं सर्वशब्दानां दर्शयति प्रमाणयति च शब्दा अपि भिन्नार्थाः प्रविभक्तव्यत्पत्तिनिमित्तकत्त्वादिह ये ये प्रविभक्त व्युत्पत्तिनिमित्तकास्ते ते भिन्नार्थाः यथेन्द्रपशुपुरुषशब्दा विभिन्नव्युत्पत्तिनिमित्तकाश्च पर्यायशब्दा अपि अतो भिन्नार्था इतिः एवंभूतः पुनरेवं भाषते यस्मिन्नर्थे शब्दो व्यत्पाद्यते स व्युत्पत्तिनिमित्तमर्थो यदैव प्रवर्तते तदैव तं शब्दं प्रवतमानमभिप्रैति न सामान्येन यथोदकाहरणवेलायां योषिदादिमस्तकारूढो विशिष्टचेष्टावानेव घटोऽ भिधीयते न शेषो घटशब्दव्युत्पत्तिनिमित्तशून्यत्वात् पटादिवदिति अतीतां भाविनी वा चेष्टामङ्गीकृत्य सा

Page Navigation
1 ... 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236