Book Title: Syadvad Manjari
Author(s): Damodarlal Goswami
Publisher: Chaukhamba Sanskrit Granthmala

View full book text
Previous | Next

Page 206
________________ स्याद्वादमञ्जरौ। प्रमाण व्यपदेशभाक्त्वात् तथा च श्रीविमलनाथस्तवे समन्तभद्रः । नयास्तव स्यात्पदलाञ्छना इमें रसोपविद्धा इव लोहधातवः । भवत्यभिप्रेतफला यतस्ततो भवन्तमार्याः प्रणता हितैषिणः ॥ इति तच्च विविधं प्रत्यक्षं परोक्षं तत्र प्रत्यक्षं विधा सांव्यवहारिकं पारमाथि कं च सांव्यवहारिक हिविधमिन्द्रियानिन्द्रियनिमित्तभेदात्तहितयमवग्रहेहावायधारणाभेदादेकैकशश्चतुर्विकल्पम् अवग्रहादीनां स्वरूपं सुप्रतीतत्वान्न प्रतन्यते पारमार्थिकं पुनरुत्पन्नभावात्ममावापक्षं तद्विविधं क्षायोपशमिक दायिक चाद्यम् अवधिमनःपर्यायभेदाद् विधा क्षायिक तु केवलज्ञानमिति परोक्षं च स्मृतिप्रत्यभिज्ञानोहाऽनुमानागमभेदात्पञ्चप्रकारं तन संस्कारप्रबोधसम्भूतमनुभतार्थविषयं तदित्याकारं वेदनं स्मतिः तत्तीथ - करविम्बमिति यथा अनुभवस्मृतिहेतुकं तिर्यगवंतासामान्यादिगोचरं संकलनात्मकं ज्ञानं प्रत्यभिज्ञानं यथा तज्जातीय एकायं गोपिण्डो गोसदृशो गवयः स एवायं जिनदत्त इत्यादिः उपलम्भानुपलम्भमभवं विकालीकलितसाध्यसाधनसम्बन्धाद्यालम्ब नमिदमस्मिन् सत्येव भवतीत्यादयाकारं संवेदनमूहस्तीपरपर्यायः यथा यावान् कश्चिद्रपः स सर्वो वही सत्येव भवतीति तस्मिन्नसत्यसौ न भवत्येवेति वा अनुमानं विधा

Loading...

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236