________________
स्याद्वादमञ्जरौ। प्रमाण व्यपदेशभाक्त्वात् तथा च श्रीविमलनाथस्तवे समन्तभद्रः ।
नयास्तव स्यात्पदलाञ्छना इमें रसोपविद्धा इव लोहधातवः । भवत्यभिप्रेतफला यतस्ततो
भवन्तमार्याः प्रणता हितैषिणः ॥ इति तच्च विविधं प्रत्यक्षं परोक्षं तत्र प्रत्यक्षं विधा सांव्यवहारिकं पारमाथि कं च सांव्यवहारिक हिविधमिन्द्रियानिन्द्रियनिमित्तभेदात्तहितयमवग्रहेहावायधारणाभेदादेकैकशश्चतुर्विकल्पम् अवग्रहादीनां स्वरूपं सुप्रतीतत्वान्न प्रतन्यते पारमार्थिकं पुनरुत्पन्नभावात्ममावापक्षं तद्विविधं क्षायोपशमिक दायिक चाद्यम् अवधिमनःपर्यायभेदाद् विधा क्षायिक तु केवलज्ञानमिति परोक्षं च स्मृतिप्रत्यभिज्ञानोहाऽनुमानागमभेदात्पञ्चप्रकारं तन संस्कारप्रबोधसम्भूतमनुभतार्थविषयं तदित्याकारं वेदनं स्मतिः तत्तीथ - करविम्बमिति यथा अनुभवस्मृतिहेतुकं तिर्यगवंतासामान्यादिगोचरं संकलनात्मकं ज्ञानं प्रत्यभिज्ञानं यथा तज्जातीय एकायं गोपिण्डो गोसदृशो गवयः स एवायं जिनदत्त इत्यादिः उपलम्भानुपलम्भमभवं विकालीकलितसाध्यसाधनसम्बन्धाद्यालम्ब नमिदमस्मिन् सत्येव भवतीत्यादयाकारं संवेदनमूहस्तीपरपर्यायः यथा यावान् कश्चिद्रपः स सर्वो वही सत्येव भवतीति तस्मिन्नसत्यसौ न भवत्येवेति वा अनुमानं विधा