________________
स्याहादमञ्जरो। २०७ खार्थ परार्थ च तत्वान्यथानुपपत्त्येकलक्षणहेतुगहणं संबन्ध स्मरणकारणकं माध्यविज्ञानं स्वार्थ पक्षहेतुवचनात्मकं परार्थ मनुमानमुपचारात् आप्तवचनादाविर्भतमर्थ संवेदनमागमः उपचारादाप्तवचनं चेति स्मृत्यादौनां च विशेषसुरूपं स्याहादरत्नाकरात् साक्षेपपरिहारं जेयमिति प्रमाणान्तराणां पुनरर्थापत्त्यपमानसम्भवपातिभैतिद्यानाम त्रैवान्तर्भावः सन्निकर्षादीनां तु जडत्वादेव न प्रामाण्यमिति तदेवंविधन नयप्रमाणीपन्यासेन दुर्नयमार्गस्त्वया खिलौकृत इति काव्या: ॥२८॥
इदानौं सप्तदीपसमुद्रमात्री लोक इति वावटूकलोकानां तन्मावलोके परिमितानामेव सत्त्वानां सम्भवात् परिमितात्मवादिनां दोषदर्शनमुखेन भगवप्रणीतं जोवानन्यवादं निर्दोषतयाऽभिष्टुवन्नाह । मुत्तोऽपि वाऽभ्येतु भवं भवो वा भवस्थशून्योऽस्तु मितात्मवाद। षड्जीवकायं वमनन्तसंख्यमाख्यस्तथा नाथ यथा न दोषः२६॥
मितात्मवादे मंख्यातानामात्मनामभ्युपगमे दूषगायमुपतिष्ठते तत्क्रमेण दर्शयति मुक्तोऽपि वा उभ्येतु भवमिति मुक्तो नितिप्राप्तः सोऽपि वा ऽपिविस्मये वा शब्द उत्तरदोषापेक्षया समुच्चयार्थ: यथा