Book Title: Syadvad Manjari
Author(s): Damodarlal Goswami
Publisher: Chaukhamba Sanskrit Granthmala

View full book text
Previous | Next

Page 195
________________ १६५ स्याद्वादमञ्जरौ | विलुप्तं सम्यग्ज्ञानादिभावप्राणव्यपरोपणेन व्यापादितं तत्त्वायस्वेत्याशयः सम्यग्ज्ञानादयो हि भावप्राणा: प्रावचनिकैर्गीयन्ते अत एव सिद्धेष्वपि जीवव्यपदेशोऽन्यथा हि जौवधातुः प्राणधारण थेऽभिधौयते तेषां च दशविवप्राणधारणाभावादजीवत्वप्राप्तिः सा च विरुवा तस्मात्संसारिणो दशविधद्रव्यप्राणधारणाज्जीवाः सिद्धाश्च ज्ञानादिभावप्राणधारगादिति सिद्धं दुर्नयस्वरूपं चोत्तरकाव्ये व्याख्यास्याम इति काव्यार्थः ॥ २७ ॥ सांप्रतं दुर्नयनयप्रमाणपुरूपणद्दारेण‘प्रमाणनयैरधिगम" इति वचनात् जीवाजीवादितत्त्वाधिगमनिबन्धनानां प्रमाणनयानां प्रतिपादयितुः स्वामिनः स्वाद्दादविरोधिदुर्नयमार्गनिराकरिष्णुमनन्यसामान्यवचनातिशयं स्तुवन्नाह । सदेव सत्स्यात्सदिति त्रिधाऽर्थो मीयेत दुर्नीतिनयप्रमाणैः । यथार्थदर्शी तु नयप्रमाणपथेन दुर्नीतिपथं त्वमास्थः ॥ २८ ॥ अर्घ्यते परिच्छिद्यत इत्यर्थः पदार्थस्विवा त्रिभि: प्रकारैमयेत परिच्छिद्येत विधौ सप्तमौ कैस्त्रिभिः प्रकारैरित्याह दुर्नीतिनयप्रमाणे नीयते परिच्छिद्यते एकदेशविशिष्टोऽर्थ अभिरिति नीतयो नया

Loading...

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236