________________
१६५
स्याद्वादमञ्जरौ | विलुप्तं सम्यग्ज्ञानादिभावप्राणव्यपरोपणेन व्यापादितं तत्त्वायस्वेत्याशयः सम्यग्ज्ञानादयो हि भावप्राणा: प्रावचनिकैर्गीयन्ते अत एव सिद्धेष्वपि जीवव्यपदेशोऽन्यथा हि जौवधातुः प्राणधारण थेऽभिधौयते तेषां च दशविवप्राणधारणाभावादजीवत्वप्राप्तिः सा च विरुवा तस्मात्संसारिणो दशविधद्रव्यप्राणधारणाज्जीवाः सिद्धाश्च ज्ञानादिभावप्राणधारगादिति सिद्धं दुर्नयस्वरूपं चोत्तरकाव्ये व्याख्यास्याम इति काव्यार्थः ॥ २७ ॥
सांप्रतं दुर्नयनयप्रमाणपुरूपणद्दारेण‘प्रमाणनयैरधिगम" इति वचनात् जीवाजीवादितत्त्वाधिगमनिबन्धनानां प्रमाणनयानां प्रतिपादयितुः स्वामिनः स्वाद्दादविरोधिदुर्नयमार्गनिराकरिष्णुमनन्यसामान्यवचनातिशयं स्तुवन्नाह ।
सदेव सत्स्यात्सदिति त्रिधाऽर्थो मीयेत दुर्नीतिनयप्रमाणैः । यथार्थदर्शी तु नयप्रमाणपथेन दुर्नीतिपथं त्वमास्थः ॥ २८ ॥
अर्घ्यते परिच्छिद्यत इत्यर्थः पदार्थस्विवा त्रिभि: प्रकारैमयेत परिच्छिद्येत विधौ सप्तमौ कैस्त्रिभिः प्रकारैरित्याह दुर्नीतिनयप्रमाणे नीयते परिच्छिद्यते एकदेशविशिष्टोऽर्थ अभिरिति नीतयो नया