________________
स्याद्वादमञ्जरौ ।
स्यादिसदृशभागतापत्तेरेवं पुण्यपापादावपि तस्मादात्किंचिदेतत् एवं बन्धमोक्षयोरप्यसम्भवो लोकेऽपि हि य एव बद्दः स एव मुच्यते निरन्वयनाशाभ्युपगमे च एकाधिकरणत्वाभावात्सन्तानस्य चावस्तुत्वात्कुतस्तयोः सम्भावनामात्रमपीति परिणामिनि चात्मनि खोक्रियमाणे सर्व निर्वामुपपद्यते परिणामोऽत्रस्थान्तरगमनं न च सर्वथा ह्यवस्थानं न च सर्वथा विनाश: “परिणामस्तद्दिदामिष्ट" इति वचनात् पतअलिटीकाकारोऽप्याह अस्थितस्य द्रव्यस्य पूर्वधर्मनिवृत्तौ धर्मान्तरोत्पत्तिः परिणाम इति एवं मामान्यविशेष सदसदभिलाप्यानभिलाप्य एकान्तवादेष्वपि सुखदुःखा द्यभावः स्वयमभियुक्तैरभ्यूः अथोत्तरार्द्धव्याख्या एवमनुपपदामानेऽपि सुखदुःखभोगादिव्यवहारे परतौर्थिकैरथ च परमार्थतः शत्रुभिः परशब्दों हि श
पर्यायोऽप्यस्ति दुर्नीतिवादव्यसनामिना नौयते एकदेशविशिष्टोऽर्थः प्रतीतिविषयमाभिरिति नौतयो नया दृष्टा नौतयो दुर्नीतयो दुर्नयास्तेषां वदनं परेभ्यः प्रतिपादनं दुर्नीतिवादस्तव यद्यसनमत्यासक्तिरौचित्यनिरपेक्षा प्रवृत्तिरिति यावत् दुर्नीतिवादव्यसनं तदेव सद्दोधशरोरोच्छेदन शक्तियुक्तत्त्वादसिरिवासिः कृपाणी दुर्नीतिवादव्यसनासिस्तेन दुर्नीतिवादव्यसनासिना करणभूतेन दुर्नयप्ररूपण हेवा कखङ्गेन एव मित्यनुभवसिद्धं प्रकारमाह श्रपिशब्दस्य भिन्नक्रमत्वादशेषमपि जगन्निखिलमपि त्रैलोक्यगतजन्तुनातं
११४