________________
स्याहादमञ्जरौ। १६३ चर्मोपमश्चेत्मोऽनित्यः खतुल्यश्चेदसत्फलः ।
बन्धानुपपत्तौ मोक्षसाप्यनुपपत्ति बन्धनविच्छेदपर्यायत्वान्मुक्तिशब्दस्येति एवमनित्यैकान्तवादेऽपि सुखदुःखाद्यनुपपत्तिरनित्यं हि अत्यन्तोच्छेदधर्मक तथाभूते चात्मनि पुण्योपादानक्रियाकारिणो निरन्वयं विनष्टत्त्वात् कस्य नाम तत्फलभूतसुखानुभव: एवं पापोपादान क्रियाकारिणोऽपि निरवयवनाशे कस्य दुःखसंवेदनमस्तु एवं चान्यः क्रियाकारी अन्यश्च तत्फलभोक्तत्यसमञ्जसमापद्यते । अथ यस्मिन्नेव हि सन्ताने आहिता कर्मवासना । फलं तत्रैव सन्धत्ते कपासे रक्तता यथा ॥ ..इति वचनान्नासमञ्जसमित्यपि वाङ्मात्र सन्तानवासनयोरवास्तत्वेन प्रागेव निर्लोठितत्वात् तथा पुण्यपाप अपि न घटते तयोहि अर्थक्रिया सुखदःखो पभोगस्त दनुपपत्तिश्चानन्तरमेवोक्ता ततोऽर्थक्रियाकारित्वाभावात्तयोरप्यघटमानलं किं चानित्यः क्षगमावस्थायौ तबिंश्च चणे उत्पत्तिमात्रव्यग्रत्त्वात्तस्य कुतः पुण्यपापोपादानक्रियाजनं द्वितीयोदिक्षणेषु चावस्थातुमेव न लभते पुण्यपापोपादानक्रियाऽभावे च पुण्यपाप कुतो निर्मलत्वातदसत्त्वे च कुतस्तनः सुखदुःखभोगः प्रास्तां वा कथं चिदेतत् तथाहि पूर्वक्षणसदृशेनोत्तरक्षणेन भवितव्यम् उपादानानुरूपत्वादुपादेयस्य ततः पूर्वक्षणाहुःखितादुत्तरक्षणः कथं सुखित उत्पाते कथं च मुखितात्ततः स दुःखितः
२५