________________
१६२ स्थाबादमञ्जरो। तहतो भेदाः सर्पस्येव कुगडलाजवाद्यवस्थाखिति चेन्ननु तास्ततो व्यतिरिक्ता अव्यतिरिक्ता वा व्यतिरेक तास्तस्येति संबन्धाभावो ऽतिप्रमङ्गात् अव्यतिरेक तु तहानेवेति तदवस्थितैव स्थिरैकरूपताहानि: कथं च तदेकान्तकरूपत्वेऽवस्थाभेदोऽपि भवेदिति किं च सुखदुःखभोगौ पुण्यपापनिर्वत्यौ तनिर्वतनं चार्थक्रिया सा च कूट स्थनित्यसा क्रमेणाक्रमेण वा नोपपदात इत्युक्तप्रायमत एवोक्तं न पुण्यपापे इति पुण्यं दानादिक्रियोपार्जनौयं शुभं कर्म पापं हिंसादिक्रियासाध्यमशमं कर्म ते अपि न घटेते प्रागुक्तनोत: तथा न बन्धमोक्षौ बन्धः कर्मपुद्गुलैः सह प्रतिप्रदेशमात्मनो वन्ह्यय:पिण्डवदन्योन्यसंश्लेषः मोक्षः कृत्स्नकर्मक्षयस्तावप्येकान्तनित्ये न सातां बन्धो हि संयोगविशेषः स चाप्राप्तानां पाप्तिरितिलक्षण: प्राकालभाविनी अप्राप्तिरन्यावस्था उत्तरकालभाविनी प्राप्तिरन्या तदनयोरप्यवस्थाभेददोषो दुस्तरः कथं चैकरूपत्वे सति तस्याकस्मिको बवनसंयोगः बन्धनसंयोगाच्च प्राक्कि नायं मुक्ती ऽभवत् किं च तेन बन्धनेनासौ विकृतिमनुभवति न वा अनुभवति चेच्चआदिवदनित्यः नानुभवति चेन्निर्विकारत्वे सता वा तेन गगनस्येव न कोऽप्यसा विशेष इति बन्धवैफल्यान्नित्यं मक्त एव स्यात्ततश्च विशीर्णा जगति बन्धमोक्षव्यवस्था तथा च पठन्ति ।
वर्षातपाम्यां किं व्योमश्चमण्यस्ति तयोः फलम् ।