________________
स्थाहादमञ्जरी। १६१ नसिहनिष्कण्टकत्वं सम्मई राजामुपभुचानः सर्वोत्कृष्टी भवत्येवं त्वच्छासनमपौति काव्यार्थः ॥ २६ ॥
अनन्तरकाव्ये नित्यानित्यादयकान्तवाददोषसामान्यमभिहितमिदानों कतिपयतत्तविशेषान्नामग्राहं दर्शयंस्तनरूपकाणाममतोद्भवकतयोद्धृततथाविधरिपुजनजनितोपद्रवमिव परित्नातुर्धरित्रीपतेस्त्रिजगत्पतेः पुरतो भुवनवयं प्रत्युपकारकारितामा विष्करोति ।
नैकान्तवाद सुखदःखभोगी न पुण्यपापे न च बन्धमोक्षौ । टुर्नीतिवादव्यसनासिनेवं परैर्विलतं जगदप्यशेषम् ॥२७॥ एकान्तवादे नित्यानित्यैकान्तपक्षाभ्युपगमे न सुखदुःखभोगौ घटेते न च पुण्यपापे घटते न च बन्धमोक्षौ घटेते पुनःपुनर्नञ: प्रयोगोऽत्यन्ताघटमानतादर्शनार्थ: तथाोकान्तनित्ये आत्मनि तावत् सुखदुःखभोगी नोपपद्य ते नित्यस्य हि लक्षणं अप्रच्युतानुत्पअस्थिरैकरूपत्वं ततो यदात्मा सुखमनुभूय स्वकारणकलापसामग्रीवशात् दुःखमुपभुङ्क्ते तदा स्वभावभेदादनित्यत्वापत्त्या स्थिरैकरूपताहानिप्रसङ्गः एवं दुःखमनुभूय मुखमुपभुञानस्यापि वक्तव्यम् अथावस्थाभेदादयं व्यवहारो न चावस्थामु भिद्यमानास्वपि