Book Title: Sugama Vaisheshika Sutra Vrutti
Author(s): Ranganathacharya
Publisher: Ganganath Jha Kendriya Sanskrit Vidyapitham Prayag

View full book text
Previous | Next

Page 9
________________ पटं प्रति सापेक्षाः, कृतसंयोगतया निरपेक्षा :, इति विवृतम् । सुगमायां सापेक्ष निरपेक्षशब्दो संयुक्तत्वावस्थायां स्वस्थिती एकस्य तन्तो : अपरतन्त्वपेक्षायाः सत्त्वात् सापेक्षत्वम्, असंयोगावस्थायां पृथक् स्थितानां तन्तूनां स्वस्थिती तन्त्वन्तरापेक्षाविरहात् निरपेक्षत्वमिति हेतूपन्यासपूर्वकं व्याख्यातौ । अत्र कृत : पक्षातरस्यापि उल्लेख : वृत्तिकाराणां परगतगुणानुमोदनं प्रकटयति । द्वितीयाध्यायद्वितीयाह्निके नवमं सूत्रं नित्येष्वभावादनित्येषु भावात् कारणे कालाख्येति इति । अस्य सूत्रस्य प्रधानप्रतिपाद्य : अर्थ: 'काल : सर्वकार्यकारण' मिति । सूत्रे तु केवलं कारणशब्द एवास्ति । न तु सर्वकारणमिति । वैशेषिकरसायनाख्ये व्याख्याने उपाधिरूपे कारणे कालाख्येति हेतो : काल : सर्वकार्यकारणमिति शेषपूरणेन व्याख्येयमिति अन्ते हेतपन्यासपूर्वक नियूंढम् । एतद्वयाख्यानुसारेण अत्र सूत्रे काचिन्यूनता वर्तते, सा शेषपूरणेन समीकरणीया इति भाति । प्रस्यां वृत्तो पुन : सूत्रव्याख्यानारम्भ एव 'इयं न केवलमाकाशादितुल्ये कस्मिंश्चित् द्रव्ये, अपि तु कारणे सर्व कार्यकारणभूते । काल : सर्व कार्यकारणमित्यर्थ :' इति सूत्रगतपदान्येवाभोप्सितार्थ प्रतिपादयन्तीति सूचितम् । पञ्चमाध्यायद्वितीयाह्निके एकविंशं सूत्रं द्रव्यगुणकर्मनिष्पत्तिव धात् भाऽभावस्तमः इति । अनेन सूत्रेण तम : न द्रव्यं, न वा गुण :, न वा कम, अपि तु प्रकाशामाव एवं तमः इति स्थाप्यते । अस्य सूत्रस्य आशयं पर्वक्रमेण द्वित्रिपदघटित : कतिपयरेव वाक्य : स्पष्टीकरोति इयं वृत्तिः । एवं तावत् तम : न द्रव्यं गुण, कर्म वा । कि तहि ? अभाव : । कस्य अभाव : ? माया : प्रकाशस्याभाव: । कस्मात् ? प्रकाशविरुद्धत्वात्। प्रकाशतमसोहि मिथो विरोधः।' इत्यादिविवरणवाक्यानि अल्पज्ञानपि प्रतिबोधयितु समर्थांनीत्यत्र न सन्देह : । सप्तमाध्यायद्वितीयाह्निकत्रयोदशं सूत्रं 'युतसिद्धयभावात् कार्यकारणयो : संयोगविभागो न विद्यते' इति । एतत्सूत्रघटकयुतसिद्धयभावात् इत्यस्य प्राय : सर्वेषु व्याख्यानेषु 'युतं अमिश्रितं, युतयोरमिश्रितो : असंबद्धयो : सत्ता युतसिद्धि : । संबन्धिनो: सत्ताकाले मिथ : कदाचिदसंबद्धत्वमिति यावत्' इति विवरणं कृतं दृश्यते। यद्यपि 'यु मिश्रणामिश्रणयो'रिति धातो: युतशब्द : निष्पन्न : तथाऽपि अमिश्रणार्थमात्रमादाय व्याख्यातम् । अस्यां तु वृत्ती मिश्रणामिश्रणरूपार्थद्वयमपि स्वीकृत्य कृत : निर्वाह : शब्दार्थविद तोषाय कल्पेत ।

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 154