Book Title: Sugama Vaisheshika Sutra Vrutti Author(s): Ranganathacharya Publisher: Ganganath Jha Kendriya Sanskrit Vidyapitham Prayag View full book textPage 8
________________ वैशेषिकसूत्राणां व्याख्यानेषु प्रशस्तपादमाष्यं एतच्छास्त्रव्युत्पित्सूनां अत्यन्त. मुपकारकम् । सूत्रोक्तानर्थान् क्रोडीकृत्य, द्रव्यगुरणादिपदार्थानामुद्देशं यथावत् कृत्वा, तेषां परस्परसाधम्यं गंभीरसुगमपंक्तिभिः विशदयति भाष्यमिदम् । सूत्राणि प्रातिस्विकरूपेणादाय, तद्गतपदानामर्थवर्णनं न करोति । "प्रणम्य हेतुमीश्वरं मुनि कणादमन्वतः । पदार्थधर्मसङ्ग्रह : प्रवक्ष्यते महोदयः" इत्यारम्भं कुर्व दिदं भाष्यं सूत्रानुसारेण ‘पदार्थधर्मसंग्रह' मेव करोति । प्रकारान्तरेणेदं भाष्यं स्वतन्त्रग्रन्थ इति व्यपदेष्टुमुचितम् । ये सूत्रगतपदानामथ, तदभिमततात्पर्यमात्र जिज्ञासन्ते, अधिकविचारे न प्रविवृत्सन्ति तै: व्याख्यानान्तरमेवान्वेषणीयं भवति। शङ्करमिश्रकृतोपस्कारादिकमपि प्रौढमात्रोपकारकम् । अत्र प्रस्तूयमाना इयं व त्ति : सुगमा स्वनामानुरूपं सूत्रगतपदानामर्थमुपवर्ण्य, तदाशयमतिसरल : सुबोधे : वाक्य : विव णोति । अल्पाक्षरसूत्राणां यथावदवबोधनाय तेषां पूर्वापरसङ्गति नानमत्यन्तनावश्यकम् । इयं वत्तिः प्राय : सर्वेषां सूत्राणां परस्परसङ्गतिमवबोधयति । प्रथममवतारिकामारचय्य सूत्रपदानामन्वयं प्रदश्यं, समस्तपदानि विगृह्य, यत्रापेक्षितं तत्र स्वल्पं विचार कृत्वा सूत्रोक्तार्थं समर्थ्य, वशेषिकदर्शनबुभत्सूनां महदुपकरोति । अत्र स्थालीपुलाकन्यायेन कानिचन स्थलानि निदर्शयामः । प्रथमाध्यायप्रथमाह्निके सप्तमं सूत्रं 'उत्क्षेपणमपक्षेपणमाकुञ्चनं प्रसारणं गमनमिति कर्माणि' इति । अत्रोत्क्षेपणं कर्म लक्षयत् प्रशस्तपादभाष्यं-शरीरावयवेषु तत्संबद्धषु च यदूर्ध्वभाग्भिः प्रदेश : संयोगकारणमधोमाग्मिश्च प्रदेश : विभागकारणं कर्मोत्पद्यते गुरुत्वप्रयत्नसंयोगेभ्य : तदुत्क्षपणम्, इति । इयं सुगमा वृत्तिस्त्वेवं लक्षयति-कस्यचिद्वस्तुन : ऊवं देशसंयोगानुकूलो व्यापार : इति । अनो: द्वयोर्लक्षणयो: दुर्गमसुगमत्व स्पष्टम् । एतत्सूत्रप्रतिपाद्यविषये काचन शङ्का भवति । अत्रानिर्दिष्टानि, एतेषु पञ्चसु अनन्तर्गतान्यपि कुलालक्रियमाणचक्रभ्रमणादीनि सन्ति । तत्कथमस्मिन् सूत्र पञ्चैव कर्माणि परिगण्यन्ते इति । अस्याः शङ्काया: समाधानं भ्रमणादिकर्माणि गमने अन्तर्भाव्य विहितं प्रशस्तपादभाष्ये, तदनुसारिव्याख्यानान्तरेषु च । परं स्वस्यां व तो 'पञ्चभ्य अतिरिक्तान्येवेमानि कर्माणि । तहि पञ्चधा विभागानुपपत्तिरिति चेत्, नात्र तथा विभाग इष्यते । इतिशब्दस्य प्रकारार्थत्वात् । इति-एवं प्रकाराणि कर्माणि इत्यर्थात्, इति समाहितम् । अस्य समाधानस्यौचित्याधिक्यं समन्येरन् मनीषिण इति मन्यामहे । अस्मिन्नेवाहिके द्वादश सूत्र "तथा भवतीति सापेक्षेभ्यो निरपेक्षेभ्यश्च' इति । अत्र सापेक्षशब्द : तन्त्वन्तरसंयुक्त : इति, निरपेक्षशब्दः तन्त्वन्तरसंयोगरहितः इति च, अनया वृत्त्या व्याख्याती। अपरस्मिन्नेकस्मिन् व्याख्याने "असंयुक्ततयाPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 154