Book Title: Siddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Author(s): Hemchandracharya,
Publisher: Yashovijay Jain Pathshala
View full book text
________________
हम शब्दानुशासनश्य
पथ्यतिथिवसतिस्वपतेरेयण् । ७ । १ । १६ ।
एभ्यस्तत्र साधावेयण् स्यात् । पाथेयम् । आतिथेयम् । वासतेयम् । स्वापतेयम् ॥ १६ ॥
४५२
भक्ताण्णः । ७ । १ । १७ । भक्तात्तत्र साधौ णः स्यात् । भाक्तः शालिः ॥१७॥
पर्षदो ण्यणौ । ७ । १ । १८ ।
तत्र साधौ स्याताम् । पार्षद्यः । पार्षदः ॥ १८ ॥ सर्वजनापण्येन । ७ । १ । १९ । तत्र साधौ स्याताम् । सार्वजन्यः । सार्वजनीनः ॥ १९ ॥ प्रतिजनादेरीनञ । ७ । १ । २० । तत्र साधौ स्यात् । प्रातिजनीनः । आनुजनीनः ॥ २० ॥
: कथादेरिकण । ७ । १ ।
२१ ।
तत्र साधौ स्यात् । काथिकः । वैकथिकः ॥ २१ ॥ देवतान्तात्तदर्थे । ७ । १ । २२ । देववन्तात्तदर्थे यः स्यात् । अग्निदेवत्यं हविः || २२ ॥ पाद्यार्थ्ये । ७ । १ । २३ ।
एतौ तदर्थे यान्तो निपात्यौ । पाद्यं जलम् । अर्घ्यम् । रखम् ।। २३ ।।
प्योऽतिथेः । ७ । १ । २४ । तदर्थे ऽर्थे स्यात् । आतिथ्यम ॥ २४ ॥