Book Title: Siddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Author(s): Hemchandracharya,
Publisher: Yashovijay Jain Pathshala
View full book text ________________
५८०
संग्रहश्लोकाः। नीहवहिकृषोण्यन्तादुहिपृच्छिभिक्षिचिरुधिशास्वर्थाः । पचियाचिदण्डिकृग्रहमथिजिप्रमुखा द्विकर्माणः ॥ १३ ॥ न्यादीनां कर्मणो मुख्यं प्रत्ययो वक्ति कर्मजः । नयते गौर्दिजैामं भारो ग्राममथोह्यते ॥ १४ ॥ गौणं कर्मदुहादीनां प्रत्ययो वक्ति कर्मजः । गौः पयो दुह्यतेऽनेन शिष्योऽर्थ गुरुणोच्यते ॥ १५ ॥ बीजकालेषु सम्बडा यथा लाक्षारसादयः । वर्णादिपरिणामेन फलानामुपकुर्वते ॥ १६ ॥ बुद्धिस्थादपि सम्बद्धात्तथा धातूपसर्गयोः । अभ्यन्तरि कृतोभेदः पदकाले प्रकाश्यते ॥ १७ ॥ . निपाताश्चोपसर्गाश्च धातवश्चेत्यमी त्रयः।।
अनेकार्थाः स्मृताः सर्वे पाठस्तेषां निदर्शनम् ॥ १८॥ प्रपरापसमन्ववनिर्भि, य॑धिसूदतिनिप्रतिपर्यपयः । उपआङिति विंशतिरेषसखे, उपसर्गगणः कथितः कविभिः ॥ १९ ॥
.. इति संग्रहश्लोकाः ॥
काश्यां चन्द्रप्रभावन्त्रालये मुद्रितम् ।
Loading... Page Navigation 1 ... 580 581 582 583 584 585 586 587 588