Book Title: Siddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Author(s): Hemchandracharya,
Publisher: Yashovijay Jain Pathshala
View full book text ________________
५४३ ।
हैमशब्दानुशासमस्य यथास्वस्थानार्थ प्रमाणादिभिरासन्न एव विधिः स्यात् । दण्डाअम् । अत्र कण्ठ्ययोरतोः कण्ठ्य एव आ दीर्घः। वातण्ड्ययुवतिः । वतण्डयाः, पुंवद्भावार्थतः आसन्नो वातण्डयः। अमुष्मै । मादुव!न्विति मात्रिकस्य मात्रिकः ॥ १२० ॥
सम्बन्धिनां सम्बन्धे । ७।४।१२१॥
सम्बन्धिशब्दानां यत्कार्यमुक्तं तत्सम्बन्ध एव सति स्यात् । श्वसुर्यः। संज्ञायास्त्वित्रेव । श्वासरिः ॥ १२१
समर्थः पदविधिः ।७।४।१२२। समर्थपदाश्रयत्वात्समर्थः पदसम्बन्धीविधिः पदविधिः सर्वपदविधिः समर्थोज्ञेयः, सामर्थ्य च व्यपेक्षा एकार्थीभावश्च । पदविधिस्तु समासनामधातुकृत्तद्धितोपपदविभक्तियुष्मदस्मदादेशः प्लुतरूपः । धर्मश्रितः । पुत्रीयति । कुम्भकारः । औपगवः । नमोदेवेभ्यः। धर्मस्ते स्वम् । धर्मो मे स्वम् । अङ्गकूज ३ इदानी ज्ञास्यसि जाल्म । समर्थ इति किम् । पश्य धर्म श्रितो मैत्रो गुरुकुलम् । पश्यति पुत्रमिच्छति मुखम् । पश्य कुम्भं करोति कटम् । गृहमुपगोरपत्यं तव । इदं नमो देवाः शृणुत । ओदनं पचतव मम वा भविष्यति। अङ्गकूजत्ययमिदानीं ज्ञास्यति जाल्मः। पदोक्तवर्णविधिरसामर्थेपि स्यात् । तिष्ठतु दध्यशान त्वं शाकेन । एवं समासनामधातुकृतद्धितेषु वाक्ये व्यपेक्षावृत्तावेकार्थीभावः । शेषेषु पुनर्व्यपेक्षैव सामर्थ्यम् ॥ १२२ ॥ इत्याचार्यहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुटत्तौ सप्तमस्याध्यायस्य
चतुर्थः पादः समाप्तः॥ - ॥ सम्पूर्णा चासौ लघुवृत्तिः ॥
Loading... Page Navigation 1 ... 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588