SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ ५४३ । हैमशब्दानुशासमस्य यथास्वस्थानार्थ प्रमाणादिभिरासन्न एव विधिः स्यात् । दण्डाअम् । अत्र कण्ठ्ययोरतोः कण्ठ्य एव आ दीर्घः। वातण्ड्ययुवतिः । वतण्डयाः, पुंवद्भावार्थतः आसन्नो वातण्डयः। अमुष्मै । मादुव!न्विति मात्रिकस्य मात्रिकः ॥ १२० ॥ सम्बन्धिनां सम्बन्धे । ७।४।१२१॥ सम्बन्धिशब्दानां यत्कार्यमुक्तं तत्सम्बन्ध एव सति स्यात् । श्वसुर्यः। संज्ञायास्त्वित्रेव । श्वासरिः ॥ १२१ समर्थः पदविधिः ।७।४।१२२। समर्थपदाश्रयत्वात्समर्थः पदसम्बन्धीविधिः पदविधिः सर्वपदविधिः समर्थोज्ञेयः, सामर्थ्य च व्यपेक्षा एकार्थीभावश्च । पदविधिस्तु समासनामधातुकृत्तद्धितोपपदविभक्तियुष्मदस्मदादेशः प्लुतरूपः । धर्मश्रितः । पुत्रीयति । कुम्भकारः । औपगवः । नमोदेवेभ्यः। धर्मस्ते स्वम् । धर्मो मे स्वम् । अङ्गकूज ३ इदानी ज्ञास्यसि जाल्म । समर्थ इति किम् । पश्य धर्म श्रितो मैत्रो गुरुकुलम् । पश्यति पुत्रमिच्छति मुखम् । पश्य कुम्भं करोति कटम् । गृहमुपगोरपत्यं तव । इदं नमो देवाः शृणुत । ओदनं पचतव मम वा भविष्यति। अङ्गकूजत्ययमिदानीं ज्ञास्यति जाल्मः। पदोक्तवर्णविधिरसामर्थेपि स्यात् । तिष्ठतु दध्यशान त्वं शाकेन । एवं समासनामधातुकृतद्धितेषु वाक्ये व्यपेक्षावृत्तावेकार्थीभावः । शेषेषु पुनर्व्यपेक्षैव सामर्थ्यम् ॥ १२२ ॥ इत्याचार्यहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुटत्तौ सप्तमस्याध्यायस्य चतुर्थः पादः समाप्तः॥ - ॥ सम्पूर्णा चासौ लघुवृत्तिः ॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy