________________
___ स्वोपज्ञलघुवृत्तिः। सप्तम्या आदिः।७।४।११४ । सप्तम्यन्तस्य विशेष्यस्य यदिशेषणं तत्तस्यादिः स्यात् । इन्डीस्वरे लुक । पथः । इह माभूत् पथिषु ॥११४॥ प्रत्ययः प्रकृत्यादेः । ७।४।११५।
यस्माद्यः प्रत्ययो विधीयते सा तस्य प्रकृतिः प्रत्ययः प्रकृत्यादेः समुदायस्य विशेषणं स्यात् नोनाधिकस्य । मातृभोगीणः ॥ ११५॥
. गौणोड्यादिः।७।४।११६।
डीमारभ्य व्यं यावत् ड्यादिः प्रत्ययः स गौणः सन्प्रकृत्यादेः समुदायस्य विशेषणं स्यात् । अतिकारीषगन्ध्याबन्धुः। गौण इति किम् । मुख्योऽधिकस्यापि विशेषणं स्यात् । परमकारीषगन्धी बन्धुः ।।११६॥
कृत्सगतिकारकस्यापि ।७।४।११७॥
कृत्प्रत्ययः प्रकृत्यादः समुदायस्य गतिकारकपूर्वस्य केवलस्य च विशेषणं स्यात् । गथेह समासो भस्मनिहुतं तथा उदके विशीर्णम् । अवतप्ते नकुलस्थितम् ॥ ११७ ॥
परः । ७।४।११८। प्रत्ययः प्रकृतेः पर एव स्यात् । अजा । वृक्षः । जुगुप्सते॥११८॥
स्पर्द्ध। ७।४।११९। द्वयोर्विध्योरऽन्यत्र सावकाशयोस्तुल्यबलयोरेकत्राऽनेकत्र चोपनिपातः स्पर्द्धः, तत्र यः सूत्रपाठे परः सविधिः स्यात् । वनानि । अत्रशसाऽता सश्व नः पुंसीत्यतो नपुंसकस्य शिरित्येव स्यात् ॥११९ ॥
आसन्नः । ७।४।१२० ।