________________
५४४
हैमशब्दानुशासनस्य स्थानीवावर्णविधौ । ७।४।१०९।
आदेशः आदेशीव स्यात् न चेत्स्थानिवर्णाश्रयं कार्यम् । भव्यम् । कस्मै । राजा । प्रकृत्य। प्रस्तुत्य। धर्मो वो रक्षतु । अवर्णविधाविति किम् । द्यौः । कइष्टः । प्रदीव्य ॥ १०९॥
स्वरस्य परे प्राविधौ ।७।४।११०
स्वरस्यादेशः परनिमित्तकः पूर्व विधौ विधेये स्थानीव स्यात । कथयति । पादिकः । संस्यते । पर इति किम् । द्विपदिकां दत्ते । प्राग्विधाविति किम् । नैधेयः॥ ११०॥ न सन्धिङीयकिद्विदीर्घासद्विधावस्क्
लुकि । ७।४।१११ । सन्धिविधौ डीविधौ यविधौ विविधौ दित्वविधौ दीर्घविधौ संयोगस्यादौ स्कोलगिति स्कलुग्वर्जे चाऽसद्विधौ स्वरस्यादेशः स्थानीय न स्यात् सन्धिः । वियन्ति । डी, बिम्बम् । यः, कण्डूतिः। क्विः, दयः । द्विः, दध्यत्र । दीर्घः, शामंशामम् । असद्रिधिः, यायष्टिः। अस्क्लुकीति किम् । सूक्तः । काष्ठतक् ॥ १११ ॥
लुप्यय्वृल्लेनत् । ७।४।११२ । प्रत्ययस्य लुपि सत्यां लुब् भूतपरनिमित्तकं पूर्व कार्य न स्यात् वृत् लं एनच मुक्त्वा। तद् गर्गाः। लुशीत्युक्ते लुकि स्यादेव । गोमान्। अवृलेनदिति किम् । जरीगृहीति । निजागलीति । एनत्पश्य ॥११२॥
विशेषणमन्तः।७।४।११३ ।
अभेदेनोक्तोऽवयवोविशेषणं विशेषस्य समुदायस्यान्तः स्यात् । अतः स्यमोऽम् । कुण्डम् । इह न स्यात् तद् ॥११३॥