SearchBrowseAboutContactDonate
Page Preview
Page 545
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः। ५४३ एषु प्रत्यभिवादे च वर्तमानस्य वाक्यस्य स्वरेष्वन्त्यः स्वरः सन्धियोग्यसन्ध्यक्षरान्तस्य प्लुतो भवन इदुत्पर आत्स्यात्। अगमः३ पूर्वान ग्रामा३न् अमिभूता३३ । पटा३उ । अर्चा, शोभनः खल्बसि अग्निभूता३३ । पटा३उ । विचारे, वस्तव्यं किं निर्ग्रन्थस्य सागारिका ३ इ। उतानागारिके । प्रत्यभिवादे, आयुष्मानेधि अग्निभूता ३ इ । सन्धेयेति किम् । कच्चिश्त कुशल३म् भवत्योः ३ कन्ये३ ॥ १०२॥ तयोर्वी स्वरे संहितायाम् । ७।४।१०३। .. तयोः प्लुताकारात्परयोरिदुतोः स्वरे परे संहिताविषये यथासङ्ख्यं वौ स्याताम् । अगमः ३ अग्निभूता ३ यत्रागच्छ । अगमः ३ पटा ३ वत्रागच्छ । संहितायामिति किम् । अग्ना ३३ इन्द्रम् । पटा ३ उ उदकम् ॥ १०३ ॥ पञ्चम्या निर्दिष्टे परस्य ।७।४।१०४। पञ्चम्या निर्दिष्टे यत्कार्यमुक्तं तत्परस्याऽव्यवधेः स्यात् । अतोमिम् ऐस् । वृक्षैः। इह माभूत् मालाभिरत्र दृषद्भिः ॥१०४॥ सप्तम्या पूर्वस्य । ७।४।१०५ । सप्तम्या निर्दिष्टं यत्कार्यमुक्तं तत्पूर्वस्या ऽव्यवधेः स्यात् । दध्यत्र । इह माभूत् । समिदत्र ॥१०५॥ षष्ट्याऽन्त्यस्य । ७।४।१०६ । षष्ठ्या निर्दिष्टं यदुक्तं तत्षष्ठयुक्तस्य योऽन्त्यस्तस्य स्यात् । अष्टाभिः॥ अनेकवर्णः सर्वस्य ।७।४।१०७। अयं विधिः षष्ठ्योक्तस्य सर्वस्यैव स्यात्। तिसृभिः ॥ १०७॥ प्रत्ययस्य।७।४।१०८। प्रत्ययस्थानिनो विधिः सर्वस्य स्यात् । सर्वे ॥ १०८ ॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy