________________
५४२
हैमशन्दानुशासनस्य दूरादामन्त्र्यस्य गुरुवैकोऽनन्त्योऽपि
लनृत् । ७।४। ९९। वाक्यस्य यः स्वरेष्वन्त्यस्वरो दूरादामन्त्र्यार्थपदस्थो गुरुवाऽनन्त्योऽपि ऋद्धर्जस्वरलकारश्चैकोऽसौ प्लुतो वास्यात् । आगच्छ भा देवदत्त३ देवदत्त वा । सक्तून पिबदे३वदत्त देवदत्त देवदत्त वा । आगच्छभो क्ल३सशिख क्लप्तशिख वा । अनृदिति किम् । कृष्णमिश्त्र कृष्णमित्र ॥९९॥
हेहैष्वेषामेव । ७।४।१०। दूरादामन्त्रस्य यौ हेहैशब्दौ तयोः प्रयुक्तयोरख वाक्ये यत्र तत्रस्थयोरन्त्यस्वरः प्लुतो वा स्यात् । हे३मैत्र आगच्छ। आगच्छ हेइमैत्र । आगच्छ मैत्रहे ३ । है३मैत्रागच्छ। आगच्छहै३मैत्र । आगच्छ मैत्र है ३ ॥ अस्त्रीशूद्रे प्रत्यभिवादे भोगोत्रनाम्नो
वा।७।४।१०१ । यदभिवादितो गुरुः कुशलानुयोगादिमद्वाक्यं प्रयुङ्क्ते तत्रास्त्रीशूद्रविषये वर्तमानस्य वाक्यस्य स्वरेष्वन्त्यस्वरो भोसो गोत्रस्य नाम्नो वाऽऽमन्त्रस्यांशः प्लुतो वा स्यात् । अभिवादये मैत्रोऽहं भोः आयुष्मानेघि भोः ३ भो वा। अभिवादये गाग्र्योऽहं भोः कुशल्यसि गार्य ३ गार्य वा। अभिवादये मैत्रो ऽहं भोः आयुष्मन्नेधि मैत्र ३ मैत्र वा। स्त्रीशूद्रवर्जनं किम् । अभिवादये गायेऽहं भोः आयुष्मती त्वं भव गार्गि। अभिवादये नुषजकोऽहं भोः कुशल्यऽसि नुषजक ॥ १०१॥ प्रश्नार्चाविचारे च सन्धेयसन्ध्यक्षरस्यादि
दुत्परः । ७।४।१०२।