Book Title: Siddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Author(s): Hemchandracharya,
Publisher: Yashovijay Jain Pathshala
View full book text ________________
स्वोपज्ञलघुवृत्तिः।
५४३ एषु प्रत्यभिवादे च वर्तमानस्य वाक्यस्य स्वरेष्वन्त्यः स्वरः सन्धियोग्यसन्ध्यक्षरान्तस्य प्लुतो भवन इदुत्पर आत्स्यात्। अगमः३ पूर्वान ग्रामा३न् अमिभूता३३ । पटा३उ । अर्चा, शोभनः खल्बसि अग्निभूता३३ । पटा३उ । विचारे, वस्तव्यं किं निर्ग्रन्थस्य सागारिका ३ इ। उतानागारिके । प्रत्यभिवादे, आयुष्मानेधि अग्निभूता ३ इ । सन्धेयेति किम् । कच्चिश्त कुशल३म् भवत्योः ३ कन्ये३ ॥ १०२॥ तयोर्वी स्वरे संहितायाम् । ७।४।१०३। .. तयोः प्लुताकारात्परयोरिदुतोः स्वरे परे संहिताविषये यथासङ्ख्यं वौ स्याताम् । अगमः ३ अग्निभूता ३ यत्रागच्छ । अगमः ३ पटा ३ वत्रागच्छ । संहितायामिति किम् । अग्ना ३३ इन्द्रम् । पटा ३ उ उदकम् ॥ १०३ ॥
पञ्चम्या निर्दिष्टे परस्य ।७।४।१०४।
पञ्चम्या निर्दिष्टे यत्कार्यमुक्तं तत्परस्याऽव्यवधेः स्यात् । अतोमिम् ऐस् । वृक्षैः। इह माभूत् मालाभिरत्र दृषद्भिः ॥१०४॥
सप्तम्या पूर्वस्य । ७।४।१०५ ।
सप्तम्या निर्दिष्टं यत्कार्यमुक्तं तत्पूर्वस्या ऽव्यवधेः स्यात् । दध्यत्र । इह माभूत् । समिदत्र ॥१०५॥
षष्ट्याऽन्त्यस्य । ७।४।१०६ । षष्ठ्या निर्दिष्टं यदुक्तं तत्षष्ठयुक्तस्य योऽन्त्यस्तस्य स्यात् । अष्टाभिः॥ अनेकवर्णः सर्वस्य ।७।४।१०७। अयं विधिः षष्ठ्योक्तस्य सर्वस्यैव स्यात्। तिसृभिः ॥ १०७॥
प्रत्ययस्य।७।४।१०८। प्रत्ययस्थानिनो विधिः सर्वस्य स्यात् । सर्वे ॥ १०८ ॥
Loading... Page Navigation 1 ... 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588