SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ हम शब्दानुशासनश्य पथ्यतिथिवसतिस्वपतेरेयण् । ७ । १ । १६ । एभ्यस्तत्र साधावेयण् स्यात् । पाथेयम् । आतिथेयम् । वासतेयम् । स्वापतेयम् ॥ १६ ॥ ४५२ भक्ताण्णः । ७ । १ । १७ । भक्तात्तत्र साधौ णः स्यात् । भाक्तः शालिः ॥१७॥ पर्षदो ण्यणौ । ७ । १ । १८ । तत्र साधौ स्याताम् । पार्षद्यः । पार्षदः ॥ १८ ॥ सर्वजनापण्येन । ७ । १ । १९ । तत्र साधौ स्याताम् । सार्वजन्यः । सार्वजनीनः ॥ १९ ॥ प्रतिजनादेरीनञ । ७ । १ । २० । तत्र साधौ स्यात् । प्रातिजनीनः । आनुजनीनः ॥ २० ॥ : कथादेरिकण । ७ । १ । २१ । तत्र साधौ स्यात् । काथिकः । वैकथिकः ॥ २१ ॥ देवतान्तात्तदर्थे । ७ । १ । २२ । देववन्तात्तदर्थे यः स्यात् । अग्निदेवत्यं हविः || २२ ॥ पाद्यार्थ्ये । ७ । १ । २३ । एतौ तदर्थे यान्तो निपात्यौ । पाद्यं जलम् । अर्घ्यम् । रखम् ।। २३ ।। प्योऽतिथेः । ७ । १ । २४ । तदर्थे ऽर्थे स्यात् । आतिथ्यम ॥ २४ ॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy