SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः। ४५१ द्वितीयान्ताद्विध्यत्यर्थे यः स्यात् । नचेदात्मनोऽन्येन करणेन विध्येत् । पद्याः। शर्कराः। अनन्येनेति किम् । चौरं विध्यति चैत्रः ॥ ८॥ धनगणाल्लब्धरि । ७।१।९। आभ्याममन्ताभ्यां लब्धर्यर्थे यः स्यात् । धन्यः। गण्यः ॥९॥ णोऽन्नात् । ७।१।१०। अन्नादमन्ताल्लब्धरि णः स्यात् । आन्नः ॥ १० ॥ हृद्यपद्यतुल्यमूल्यवश्यपथ्यवयस्यधेनुष्या गार्हपत्यजन्यधर्म्यम् । ७।१।११। एते ऽर्थविशेषेषु यान्ता निपात्याः। हृद्यमौषधम् । पद्यं पंकः । तुल्यं भाण्डं सक्षम् । मूल्यं धान्यम् पटादिविक्रयाल्लभ्यञ्च । वश्यो गौः। पथ्यमोदनादि । वयस्यः सखा । धेनुष्यापीतदुग्धा गौः। गार्हपत्यो नामामिः। जन्या वरवयस्याः । धर्म्यम् सुखम् ॥ ११॥ नौविषेण तार्यवध्ये। ७।१।१२। आभ्यां निर्देशादेव तृतीयान्ताभ्यां यथासङ्ख्यं तार्ये वध्ये चार्थे यः स्यात् । नाव्या नदी । विष्यो गजः ॥ १२॥ न्यायार्थादनपेते । ७।१।१३ । आभ्यां पञ्चभ्यन्ताभ्यामनपेतेऽर्थे यः स्यात् । न्याय्यम् । अर्थ्यम् ॥ मतमदस्य करणे। ७।१।१४। आभ्यां षष्ठयन्ताभ्यां करणे यः स्यात् । मत्यम् । मद्यम् ॥ १४ ॥ तत्र साधौ। ७।१।१५। तत्रेति सप्तम्यन्तात्साधकऽर्थे यः स्यात् । सभ्यः ॥ १५॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy