________________
४५०
हेमशब्दानुशासनस्य
अर्हम
यः । ७ । १ । १ ।
यदित ऊर्ध्वमनुक्रमिष्यामस्तत्र ईयादवग् य इत्यधिकृतं ज्ञेयम् ॥१॥ वहतिरथयुगप्रासङ्गात् । ७ । १ । २ ।
तमिति वर्त्तते । एभ्यो द्वितीयान्तेभ्यो वहत्यर्थे यः स्यात् । द्विरथ्यः । युग्यः । प्रासङ्गो वत्सदमनस्कन्धकाष्ठम् प्रासङ्ग्यः ॥ २ ॥
धुरो यैयण । ७ । १ । ३।
धुरोद्वितीयान्ताद्वहत्यर्थे एतौ स्याताम् । धुर्यः । धौरेयः ॥ ३ ॥ वामाद्यादेरीन: । ७ । १।४।
वामादिपूर्वाद्दुरन्तादमन्तादहत्यर्थे ईनः स्यात् । वामधुरीणः । सर्वधुरीणः ॥ ४ ॥
अचैकादेः । ७ । १।५।
एकपुर्वाद्दुरन्तादमन्ताद्वहत्यर्थे अईनश्च स्यात् । एकधुरः । एकधुरीणः ॥ ५ ॥
हलसीरादिकण् । ७ । १ । ६ ।
आभ्यां तं वहत्यर्थे इकण स्यात् । हालिकः । सैरिकः ॥ ६ ॥ शकटादण । ७ । १।७। अस्मात्तं वहत्यर्थेऽण् स्यात् । शाकटो गौः ॥ ७ ॥ विध्यत्यऽनन्येन । ७ । १। ८।