Book Title: Siddha Prabhrutam Satikam
Author(s): Parshwaratnasagar
Publisher: Omkarsuri Jain Gyanmandir

View full book text
Previous | Next

Page 171
________________ १५४ सिद्धप्रामृत : सटीकः एभिः पूर्वोक्तैरष्टभिः सत्पदप्ररूपणादिभिद्वारैरनन्तराः सिद्धा विचारणीयाः । परम्पराः सिद्धास्तु 'तेहिं' तैः सत्पदप्ररूपणादिभिद्वारैः संनिकर्षयुक्तैर्नवभिाररित्यर्थः । न विद्यते समयेनाप्यन्तरं व्यवधानं येषां तेऽनन्तराः, सिद्धत्वप्रथमसमयवर्त्तिन इत्यर्थः । प्राकृतत्वाज्जसो लोपः । विवक्षिते प्रथमे समये यः सिद्धस्तस्य यो द्वितीयसमये सिद्धः स परः, तस्यापि यस्तृतीयसमये सिद्धः स परम्परः । एवमन्येऽपि वाच्याः । परम्परे च ते सिद्धाश्च परम्परसिद्धाः । विवक्षितसिद्धत्वप्रथमसमयात्प्राग् द्वितीयादिषु समयेष्वनन्तामतीताद्धां यावद्वर्त्तमाना इत्यर्थः । संनिकर्षो नाम संयोगः । हुस्वदीर्घयोरिव विवक्षितं किञ्चित्प्रतीत्य विवक्षितस्याल्पतया बहुत्वेन वा अवस्थानरूपः संबन्धः । उभयेऽपि सिद्धाः । केषु विषयेषु विचारणीयाः ? इत्याह'इमेसु' इति एषु पञ्चदशसु द्वारेषु ॥ ३ ॥ तान्येवाह खित्ते काले गइ वे तित्थ लिंगे चरित्त बुद्धे य । नाणोगाहुक्कस्से, अंतरमणुसमयगणणअप्पबहू ॥ ४ ॥ 'उक्कस्से' इति उत्कर्षद्वारम् ॥ ४ ॥ प्रथमत एषु पञ्चदशसु द्वारेषु सत्पदप्ररूपणयाऽनन्तरसिद्धाश्चिन्त्यन्ते खित्ति तिलोगे ? १ काले, सिझंति अरेषु छसुवि संहरणा। अवसप्पिणि ओसप्पिणि, दुतिअरगेजम्मु तिदुसु सिवं २॥५॥ क्षेत्रद्वारे त्रिलोके । तत्रोर्ध्वलोके पण्डकवनादौ, अधोलोके ऽधोलौकिकग्रामेषु, तिर्यग्लोके मनुष्यक्षेत्रे सिध्यन्तीति क्रिया सर्वत्र योज्या । संहरणात् समुद्रनदीवर्षधरादिष्वपि । तीर्थकृतः पुनः संहरणाभावात् अधोलौकिकग्रामेषु तिर्यग्लोके वा पञ्चदशसु कर्मभूमिधू 1. 'स परः' इत्यपि । 2. 'गीतिच्छन्दः' । 3. इतोऽग्रे 'न शेषस्थानेषु' इत्यधिक क्वचित् ॥

Loading...

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210