Book Title: Siddha Prabhrutam Satikam
Author(s): Parshwaratnasagar
Publisher: Omkarsuri Jain Gyanmandir

View full book text
Previous | Next

Page 197
________________ १८० सिद्धप्रामृत : सटीकः परिशिष्ट-२ ॥ श्रीसिद्धदण्डिकास्तवः ॥ ॥ प्रस्तावना ॥ इह हि जगदद्भुतजैनशासनबद्धानुरागभव्याङ्गिगणमागमगुम्फितातिगम्भीरज्ञेयहेयोपादेयामेयपदार्थसारमवगमयितुकामैरुपकृतिकरणैककरुणारसनिमग्नमानसैः श्रीमद्हद्गच्छस्यैवाजीवितविहितातिदुष्कराचाम्लतपसा तपगच्छ इति नामान्तरमासादितवतां चित्रकूट (चित्तौड)महीमहेन्द्रोपलब्ध 'हीरेति' बिरुदानां विश्वविख्यातविशदकीर्तिश्रीमज्जगच्चन्द्रसूरीन्द्राणां विनेयवर्गाग्रेसरैः श्रीमद्देवेन्द्रसूरिभिरनेकानि प्रकरणादीनि सन्दृब्धानि वरीवृत्यन्ते, तेष्वन्यतममिदं सिद्धदण्डिकास्तवाभिधानं प्रकरणम् । इह च प्रकरणकारैः श्रीनाभेयवंशणानां त्रिखण्डाधिपानां भूभृतां सिद्धिगतानां सर्वार्थगतानां च सम्यक्तया संख्योद्घाटनं स्पष्टतया प्रकटीकृतम् । एते सूरिशिरोमणयः कदा कतमं महीमण्डलं मण्डयामासुरिति पर्यालोचनायां प्रवृत्तायाम्-श्रीमन्मुनिसुन्दरसूरिपादप्रणीतगुर्वावलीविलोकनेन विक्रमीयसप्तविंशत्यधिकत्रयोदशशततमाब्देऽमीषां स्वर्गारोहणं निर्णीयते, अतस्तेषां कालमानं निर्विरोधं विक्रमीयत्रयोदशशताब्दीयं ज्ञायते । स्तवस्यास्य मूलपाठपुस्तकानि चत्वारि समासादितानि, सटिप्पणीकं चैकं विश्वविख्यातकीर्तिकौमुदीकत्रीमद्विजयानन्दसूरिशिष्यप्रवर्तकत्रीमत्कान्तिविषयमुनीनां सकाशत उपलब्धम्, एतत्पुस्तकचतुष्टयाधारेण संशोधितेऽप्यत्र निबन्धे यत्र ववनाशुद्धिः कृता जाता वा भवेत्तत्र संशोधनीयं धीधनैरित्यभ्यर्थयतेसविनयबद्धाञ्जलिः प्रवर्तकत्रीमत्कान्तिविजयपादपद्मपरागः चतुरविजयो मुनिः (सुरत)

Loading...

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210