Book Title: Siddha Prabhrutam Satikam
Author(s): Parshwaratnasagar
Publisher: Omkarsuri Jain Gyanmandir
View full book text
________________
परिशिष्ट - १
द्वयं द्वयं सिध्यति, तत्र सर्वबहव एककसिद्धाः, ततो द्विकद्विकसिद्धाः अनन्तगुणहीनाः । यत्र पुनरुर्ध्वलोकादौ चत्वारः सिध्यन्ति तत्रैवं व्याप्तिः तत्र सर्वषहव एककसिद्धाः ततो द्विक द्विक सिद्धाः असंख्येयगुणहीनाः, तेभ्यस्त्रिकत्रिक सिद्धा अनन्तगुणहीनाः, तेभ्योऽपि चतुश्चतुः सिद्धा अनन्तगुणहीनाः । तदेवमिह संनिकर्षो द्रव्यप्रमाणे सप्रपञ्चं चिन्तितः । शेषेषु द्वारेषु सिद्धासिद्धप्राभृतटीकातो भावनीयाः । इत्येवं पूर्वोक्तप्रकारेण सिद्धानां मुक्तिपदप्राप्तानां स्वरूपं लिखितं अक्षरन्यासीकृतं श्रीसिद्धप्राभृतादिति शेषः । कै: श्रीदेवेन्द्रसूरिभिः || ५० ॥ इति श्रीसिद्धपञ्चाशिकावचूरिः समाप्ता ॥
॥ समाप्तेयं श्रीमद्देवेन्द्रसूरिविरचिता सावचूरिका सिद्धपञ्चाशिका ॥
"
१७९

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210