Book Title: Siddha Prabhrutam Satikam
Author(s): Parshwaratnasagar
Publisher: Omkarsuri Jain Gyanmandir

View full book text
Previous | Next

Page 194
________________ परिशिष्ट-१ १७७ असंख्येयगुणाः, ततोऽप्यष्टचत्वारिंशत्सिद्धा असंख्येयगुणाः; एवमेकै कहान्या तावद्वाच्यं यावत् षड्विशतिसिद्धेभ्यः पञ्चविंशतिसिद्धा असंख्येयगुणाः । ततस्तेभ्यश्चतुर्विंशतिसिद्धाः संख्येयगुणाः; एवमेकै कहान्या तावद्वाच्यं यावद्किसिद्धेभ्य एकैकसिद्धाः संख्येयगुणाः १४ ॥ ४७ । संप्रत्यत्रैवाल्पबहुत्वद्वारे यो विशेषस्तमाह अमथिअ उद्धद्विअ, उमाडि वीरासणे निठंजे अ । पासिल्लग उत्ताणग, सिद्धा उ कमेण संखगुणा १५ ॥ ४८ ॥ सर्वस्तोका उन्मथितसिद्धाः अधोमुखसिद्धाः । ते च पूर्ववैरिभिः पादेनोत्पाट्य नीयमाना अधोमुखकायोत्सर्गस्था वा वेदितव्याः १ । तेभ्य ऊर्ध्वस्थितकायोत्सर्गसिद्धाः २, तेभ्यः उत्कटिकासनसिद्धाः ३, तेभ्यो वीरासनसिद्धाः ४ तेभ्योऽपि न्युब्जासनसिद्धाः न्युब्ज उपविष्ट एवाधोमुखो द्रष्टव्यः ५, तेभ्यः पार्श्वस्थितसिद्धाः ६ तेभ्योऽप्युत्तानक स्थितसिद्धाः ७ । एते क्रमेण यथोत्तरं संख्येयगुणाः १५ ॥ ४८ ॥ तदेवमुक्तमल्पबहुत्वद्वारम्, संप्रति सर्वगताल्पबहुत्वविशेषोपदर्शनाय संनिकर्षद्वारमुच्यते । तत्र संनिकों नाम संयोगो हुस्वदीर्घयोरिव विवक्षितं किञ्चित्प्रतीत्य विवक्षितस्याल्पत्वेन बहुत्वेन बाऽवस्थानरूपः संबन्धः पणवीस पन्न अडसय, पण दस वीसा य ति पण दसगं च । संख असंख अणंत य, गुणहाणि चउटुआई ता ४९ ॥ इग दुग इग दुग चउ बहुणंत बहु असंखणंतगुणहीणा । इय सिद्धाण सरूवं, लिहिअं देविंदसूरीहिं ॥ ५० ॥ यत्र यत्राष्टशतं सिद्धादुपलभ्यते, तत्र तत्रेयं व्याप्तिः । सर्वबहव एककसिद्धाः, ततो द्विकद्विकसिद्धाः संख्येयगुणहीनाः, ततस्त्रिकत्रिक

Loading...

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210