Book Title: Siddha Prabhrutam Satikam
Author(s): Parshwaratnasagar
Publisher: Omkarsuri Jain Gyanmandir
View full book text
________________
परिशिष्ट-१
१७५ चारित्रद्वारे च्छेदोपस्थापनपरिहारविशुद्धिकसूक्ष्मसंपराययथा ख्यातचारित्रसिद्धा इति चतुष्कसिद्धाः स्तोकाः १ । सामायिकरहितं च च्छेदोपस्थापनं भग्नचारित्रस्यावगन्तव्यम् । ततः सामायिकच्छेदोपस्थापनपरिहारविशुद्धिकसूक्ष्मसंपरायथाख्यातचारित्रसिद्धा इति पञ्चक सिद्धाः संख्येयगुणाः २, तेभ्यः च्छेदोपस्थापनसूक्ष्मसंपरायथाख्यातचारित्रत्रिकसिद्धा असंख्यातगुणाः ३, ततोऽपि सामायिकच्छेदोपस्थापनसूक्ष्मसंपराययथाख्यातरूपचतुष्कसिद्धाः संख्येयगुणाः ४, शेषचारित्रभङ्गे ॥ ४३ ॥ ततः सामायिकसूक्ष्मसंपराययथाख्यातचारित्रसिद्धाः संख्यातगुणाः ५ । ७ । बुद्धद्वारे 'सं' इति स्वयंबुद्धसिद्धाः स्तोकाः १, तेभ्यः प्रत्येकबुद्धसिद्धाः २ तेभ्योऽपि बुद्धीबोधिताः सिद्धाः ३ तेभ्योऽपि बुद्धबोधिताः सिद्धाः ४ क्रमेण त्रयोऽपि संख्यातगुणाः ८ । ज्ञानद्वारे मतिश्रुतज्ञानसिद्धाः मनःपर्यायज्ञानयुक्ताः स्तोकाः मतिश्रुतमनःपर्यायज्ञानसिद्धाः सर्वस्तोकाः १ तत आ आवृत्त्या 'मइसुअ' इति पदमेव व्याख्याते, तेभ्यो मतिश्रुतज्ञानसिद्धाः संख्येयगुणाः, २ 'चउ' इति तेभ्योऽपि मतिश्रुतावधिमनःपर्यायज्ञानसिद्धाः असंख्येयगुणाः ३ ततो मतिश्रुतावधिज्ञानत्रयसिद्धाः संख्येयगुणाः ४ । ९ । ४४ ॥ इत ऊर्ध्वं गाथाबन्धानुलोम्यात् द्वाराणां व्यत्ययेन व्याख्यानमाह
अडसमयसिद्ध थोवा, संखिज्जगुणा उ सत्तसमयाई १३ । अचुअ चुअतीसु थोवा, असंख संखा असंखा य ११ ।
अनुसमयद्वारे सर्वस्तोका अष्टसमयसिद्धाः अष्टौ समयान् यावनिरन्तरं सिध्यतां जीवानां स्तोकानामेव लभ्यमानत्वात् । ततः सप्तसमयसिद्धाः संख्येयगुणाः । एवं समयसमयहान्या तावद्वाच्यं, यावद्विसमयसिद्धाः संख्येयगुणाः । एकसमयस्य तु नैरन्तर्याभावात् अत्रासंभवः १३ । उत्कृष्टद्वारे 'अचुअ'

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210