Book Title: Siddha Prabhrutam Satikam
Author(s): Parshwaratnasagar
Publisher: Omkarsuri Jain Gyanmandir

View full book text
Previous | Next

Page 199
________________ १८२ सिद्धप्रामृत : सटीकः तावद्वाच्यौ यावत्तेऽपि द्विकसंख्या असंख्येया भवन्ति । एवं त्रिकत्रिक संख्यादयोऽपि-प्रत्येकमसंख्येयास्तावद्वाच्याः सर्वार्थसिद्धे यावत्पञ्चाशत्पञ्चाशत् संख्याकाश्चतुर्दश चतुर्दश लक्षान्तरिता असंख्येया भवन्ति । अनुलोमसिद्धदण्डिकास्थापना ॥ सिद्धिगताः |१४| १४ | १४| १४ | १४| १४ | १४ | १४|१४|१४|१४| असंख्येयवाराः सर्वार्थगताः १ २ ३ ४ ५ ६ ७ ८ ९ १०/५० | असंख्येयवाराः ततोऽनन्तरं चतुर्दशलक्षा नृपाः सर्वार्थसिद्धे एकः सिद्धौ, एवं चतुर्दशलक्षान्तरित एकैकः सिद्धौ तावद्वक्तव्यो यावत्तेप्येकैका असंख्येया भवन्ति । ततो भूयोऽपि चतुर्दशलक्षा नृपाः सर्वार्थसिद्धे ततो द्वौ निर्वाणे, एवं चतुर्दश लक्षान्तरितौ द्वौ द्वौ निर्वाणे तावद्वक्तव्यौ, यावत्तेऽपि द्विकद्विकसंख्या असंख्येया भवन्ति; एवं त्रिकत्रिकसंख्यादयोऽपि यावत्पञ्चाशत्पञ्चशत्संख्याश्चतुर्दश चतुर्दश लक्षान्तरिताः सिद्धौ प्रत्येकमसंख्येया भवन्ति ॥ ३ ॥ ४ ॥ प्रतिलोम-सिद्धदण्डिकास्थापना सिद्धिगताः १ | २ | ३ | ४ ६ ७८.९१०/५०/ असंख्येयवाराः सर्वार्थगता: १४| १४ | १४| १४ | १४| १४] १४ | १४ | १४ | १४ | १४ | असंख्येयवाराः तो दो लक्खा मुक्खे, दुलक्ख सव्वट्ठि मुक्खि लक्खतिगं । इयगइगलक्खुत्तरिआ, जा लक्खअसंख दोसु समा ॥५॥ ततः परं वे लक्षे नृपाणां निर्वाणे, द्वे लक्षे सर्वार्थे । एवं त्रिचतुष्पञ्चषड् यावदुभयत्रापि असंख्येया असंख्येया लक्षा वक्तव्याः ॥ ५ ॥ समसंख्यसिद्धदण्डिकास्थापना ॥ सिद्धिगताः २ ३ ४ ६ ८९ १० ११ १२] एवं यावदसंख्येयलक्षाः | सर्वार्थगताः २ ३ ४ ५ ६ ९ १० ११ १२ एवं यावदसंख्येयलक्षाः | तो एगु सिवे सव्वट्टि दुन्नि ति सिवम्मि चउर सव्वढे । इय एगुत्तरवुड्डी, जाव असंखा पुढो दोसु ॥ ६ ॥

Loading...

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210