________________
परिशिष्ट - २
ततः परं चतस्त्रश्चित्रान्तरदण्डिकाः । तद्यथा - प्रथमा एकादिका एकोत्तरा, द्वितीया एकादिद्वयुत्तरा, तृतीया एकादित्र्युत्तरा, चतुर्थी त्र्यादिका द्वयादिविषमोत्तरा । प्रथमा भाव्यते - प्रथममेकः सिद्धौ ततो द्वौ सर्वार्थे, ततस्त्रयः सिद्धौ ततश्चत्वारः सर्वार्थे, ततः पञ्च सिद्धौ, षट् सर्वार्थे । एकमेकोत्तरया वद्ध्या शिवे सर्वार्थे च तावद्वक्तव्यं यावदुभयत्राप्यसंख्येया भवन्ति ॥ ६ ॥ एकोत्तरसिद्धदण्डिकास्थापना ॥
सिद्धिगताः १ ३ सर्वार्थगताः २ ४
१८३
इक्को मुक्खे सव्वट्टि तिन्नि पण मुक्खि इअ दुरुत्तरिआ । जा दोसुवि अ असंखा, एमेव तिउत्तरासेढी ॥ ७ ॥
सिद्धिगताः १ सर्वार्थगताः ३
५ ७ ९ ११ १३ १५१७ १९२१ एवं यावदसंख्या: ६ ८ १० १२ १४ १६ १८ २० २२ एवं यावदसंख्याः
द्वितीया भाव्यते यथा-ततः परमेकः सिद्धौ त्रयः सर्वार्थे, ततः पञ्च सिद्धौ, सप्त सर्वार्थे । एवं द्व्युत्तरया वृद्धया शिवगतौ सर्वार्थे च तावद्वक्तव्यं यावदुभयत्राप्यसंख्येया भवन्ति ॥ द्व्युत्तरसिद्धदण्डिकास्थापना
6 ू
९ १३ १७ २१ २५ २९ ३३ ३७ एवं यावदसंख्याः ११ १५ १९ २३ २७ ३१ ३५ ३९ एवं यावदसंख्याः
तृतीया यथा—ततः परमेकः सिद्धौ चत्वारः सर्वार्थे, ततः सप्त सिद्धौ, दश सर्वार्थे | एवं त्र्युत्तरया च वृद्ध्या शिवे सर्वार्थे च क्रमेण तावद्वाच्यं यावदुभयत्रासंख्येयाः स्युः ॥ ७ ॥
सिद्धिगताः १ ७ १३ १९ २५ ३१ ३७ ४३ ४९ ५५ एवं यावदसंख्याः सर्वार्थगताः ४ १०१६ २२ २८ ३४ ४० ४६ ५२ ५८ एवं यावदसंख्या: चतुर्थी विचित्रा । तस्याः परिज्ञानार्थमयमुपायःविसमुत्तरसेढीए, हिब्रुवरिं ठविअ अउणतीसतिआ । पढमे नत्थि क्खेवो, सेसेसु सया इमो खेवो ॥ ८ ॥