Book Title: Siddha Prabhrutam Satikam
Author(s): Parshwaratnasagar
Publisher: Omkarsuri Jain Gyanmandir

View full book text
Previous | Next

Page 195
________________ १७८ सिद्धप्रामृत : सटीक सिद्धाः संख्येयगुणहीनाः, एवं तावद्वाच्यं यावत्पञ्चविंशतिसिद्धाः संख्येयगुणहीनाः । ततोऽपि षड्विशतिसिद्धा असंख्येयगुणहीनाः, ततः सप्तविंशतिसिद्धा असंख्येयगुणहीनाः, एवमेकैकवृद्ध्या असंख्येयगुणहानिस्तावद्वक्तव्या यावत्पञ्चाशत् । तेभ्योऽपि एकपञ्चाशत्सिद्धा अनन्तगुणहीनाः, ततोऽपि द्विषञ्चाशत्सिद्धाः, एवमेकैकवृद्ध्या अनन्तगुणहानिस्तावद्वक्तव्या यावदष्टाधिकशतसिद्धा अनन्तगुणहीनाः । यत्र यत्र पुनविंशतिसिद्धास्तत्र तत्रेयं व्याप्ति:-एककसिद्धाः सर्वबहवः, तेभ्यो द्विक द्विकसिद्धाः, संख्यातगुणहीनाः, एवं तावद्वाच्यं यावत्पञ्च । ततः षडादिसिद्धा असंख्यातगुणहीनाः, यावद्दश । तत एकादशादयः सर्वेऽप्यनन्तगुणहीनास्तावद्वाच्या यावद्विशतिसिद्धा अनन्तगुणहीनाः । एवम धोलोकादिष्वपि । विंशतिपृथक्त्वसिद्धौ प्रथमचतुर्थभागे संख्येयगुणहानिः, द्वितीय चतुर्थभागेऽसंख्येयगुणहानिः, तृतीयस्माच्चतुर्थभागादारभ्य पुनः सर्वत्राप्यनन्तगुणहानिः । यत्र पुनर्दश दश सिद्ध्यन्ति, तत्रैवं व्याप्तिः-एककसिद्धाः सर्वबहवः, ततो द्विकद्विकसिद्धाः संख्येयगुणहीनाः, ततस्त्रिकत्रिकसिद्धाः संख्यातगुणहीनाः, तेभ्यश्चतुष्कचतुष्क सिद्धाः असंख्यातगुणहीनाः, ततः पञ्च पञ्च सिद्धा असंख्यातगुणहीनाः, ततः षडादयः सर्वेऽप्यन्तगुणहीना वाच्याः । 'संख असंख अणंत य गुणहाणि' इति भावितमेव । तथा 'चउठ्आई' इति यत्र यत्र यवमध्यादावष्टौ सिध्यन्ति तत्र तत्र चतुष्कं यावदाद्या संख्यातगुणहानिः, ततः परं पञ्चकादावन्त्यानन्तगुणहानिर्वाच्या । अत्र मध्या संख्येयगुणहानिर्न विद्यते । एतदुक्तं भवति–एककसिद्धाः सर्वबहवः, ततो द्विकद्विक सिद्धाः संख्यातगुणहीनाः, ततस्त्रिकत्रिकसिद्धाः संख्यातगुणहीनाः, ततश्चतुष्कचतुष्कसिद्धाः संख्यातगुणहीनाः, ततः पञ्चादयोऽष्टपर्यन्ताः सर्वेऽप्यनन्तगुणहीनाः ॥ ४९ ॥ 'इग' अत्रैवमक्षरघटना-यत्र लवणादौ

Loading...

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210