Book Title: Siddha Prabhrutam Satikam
Author(s): Parshwaratnasagar
Publisher: Omkarsuri Jain Gyanmandir
View full book text
________________
१७६
सिद्धप्राभृत : सटीकः इति अच्युतसम्यक्त्वसिद्धाः स्तोकाः 'चुअतीसु' इति त्रिषुच्युतसम्यक्त्वेषु संख्यातकालच्युतसम्यक्त्वेष्वसंख्यातकालच्युतसम्यक्त्वेष्वनन्तकालच्युतसम्यक्त्वेषु च यथोत्तरं असंख्यातसंख्यातासंख्यातगुणत्वं वाच्यम् । अत्रायर्थ:सर्वस्तोका अप्रतिपतितसम्यक्त्वसिद्धाः, ततः संख्येयकालप्रतिपतितसम्यक्त्वसिद्धा असंख्येयगुणाः, तेभ्योऽसंख्येयकालप्रतिपतितसम्यक्त्वसिद्धाः संख्येयगुणाः, तेभ्योऽप्यनन्तकालप्रतिपतितसम्यक्त्वसिद्धा असंख्येयगुणाः ११॥४५॥
एगोजा जवमझं, संखगुण परा उसंखगुणहीणा। छम्मासंता १२ लहु गुरु, मज्झ तणू थोव दुअसंखा १०।४६
अन्तरद्वारे षण्मासान्तरसिद्धाः स्तोकाः, तत एकसमयान्तरसिद्धाः संख्येयगुणाः । ततो द्विसमयान्तरसिद्धाः संख्येयगुणाः । एवं तावद्वाच्यं यावधवमध्यम् । ततः परं संख्यातगुणहानिः संख्यातगुणहानिः ताव द्वाच्या यावदेकसमयहीनषण्मासान्तरसिद्धेभ्यः षण्मासान्तरसिद्धाः संख्येयगुणहीनाः । अत्रायमाशयः-यवमध्यात्परतः संख्यातगुणहीनसंख्यातगुणहीनास्तावंद्वाच्यायावदेकसमयहीनषण्मासान्तरसिद्धाः संख्यातगुणहीनाः १२ । अवगाहनाद्वारे लघुतनुसिद्धाः स्तोकाः, ततो गुरुतनुसिद्धा असंख्येयगुणाः, ततो मध्यतनुसिद्धा असंख्येयगुणाः । अत्रायं विशेष:-सर्वस्तोकाः सप्तहस्तावगाहनाः सिद्धाः ततः पञ्चधनु:शतप्रमाणावगाहनाः सिद्धाः विशेषाधिकाः ॥ १० ॥ ४६ ॥
अट्ठसयसिद्ध थोवा, सत्तहिअ अणंतगुणिअ जा पन्ना । जा पणवीसमसंखा, एगंता जाव संखगुणा १४ ॥ ४७
गणनाद्वारे अष्टशतसिद्धाः स्तोकाः, तेभ्यः सप्ताधिकशतसिद्धा अनन्तगुणाः; एवमेकैकहान्याऽनन्तगुणास्तावद्वाच्या यादेकपञ्चाशत्सिद्धेभ्यः पञ्चाशत्सिद्धा अनन्तगुणाः । ततस्तेभ्यः एकोनपञ्चाशत्सिद्धा

Page Navigation
1 ... 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210