SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट - १ द्वयं द्वयं सिध्यति, तत्र सर्वबहव एककसिद्धाः, ततो द्विकद्विकसिद्धाः अनन्तगुणहीनाः । यत्र पुनरुर्ध्वलोकादौ चत्वारः सिध्यन्ति तत्रैवं व्याप्तिः तत्र सर्वषहव एककसिद्धाः ततो द्विक द्विक सिद्धाः असंख्येयगुणहीनाः, तेभ्यस्त्रिकत्रिक सिद्धा अनन्तगुणहीनाः, तेभ्योऽपि चतुश्चतुः सिद्धा अनन्तगुणहीनाः । तदेवमिह संनिकर्षो द्रव्यप्रमाणे सप्रपञ्चं चिन्तितः । शेषेषु द्वारेषु सिद्धासिद्धप्राभृतटीकातो भावनीयाः । इत्येवं पूर्वोक्तप्रकारेण सिद्धानां मुक्तिपदप्राप्तानां स्वरूपं लिखितं अक्षरन्यासीकृतं श्रीसिद्धप्राभृतादिति शेषः । कै: श्रीदेवेन्द्रसूरिभिः || ५० ॥ इति श्रीसिद्धपञ्चाशिकावचूरिः समाप्ता ॥ ॥ समाप्तेयं श्रीमद्देवेन्द्रसूरिविरचिता सावचूरिका सिद्धपञ्चाशिका ॥ " १७९
SR No.022008
Book TitleSiddha Prabhrutam Satikam
Original Sutra AuthorN/A
AuthorParshwaratnasagar
PublisherOmkarsuri Jain Gyanmandir
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy