Book Title: Siddha Prabhrutam Satikam
Author(s): Parshwaratnasagar
Publisher: Omkarsuri Jain Gyanmandir

View full book text
Previous | Next

Page 184
________________ परिशिष्ट - १ बोधितस्त्रीणां प्रत्येकबुद्धानां च संख्यातसमासहस्त्राण्यन्तरम्, स्वयंबुद्धे पूर्वसहस्त्रपृथक्त्वम् ८ ॥ ज्ञानद्वारे मतिश्रुतज्ञानिनामुत्कृष्टमन्तरं पल्याऽसंख्यात भागः, अवधियुक्ते मतिश्रुतज्ञाने समधिकं वर्षम् । २६ ॥ शेषभङ्गद्विके मतिश्रुतमन: पर्यायलक्षणे मतिश्रुतावधिमनःपर्यायलक्षणे च संख्यातसमासहस्त्राणि ९ । अवगाहनाद्वारे गुर्ववगाहनायां लघ्ववगाहनायां च यवमध्ये च प्रत्येकं " चउदसरज्जू लोगो, बुद्धिकओ सत्तरज्जुमाणघणो । तद्दीहेगपएसा सेढीपयरो य तव्वग्गो १" इत्येवंलक्षणश्रेण्यसंख्येयभागः श्रेण्यसंख्येय भागगतप्रदेशापहारकाल इत्यर्थः । मध्यमावगाहने वर्षमधिकम् १० ॥ २७ ॥ १६७ अचुअ असंखं सुअही, अणंतहिअवास सेस संखसमा ११ । संतर १२ अनंतरं १३. इग, अणेग १४ समसहस संखिज्जा ॥ २८ ॥ उत्कृष्टद्वारे सूचनात्सूत्रस्य अच्युतसम्यक्त्वानां असंख्यांशो भाग उदधेः सागरोपमस्य । 'अनंत' इति अनन्तकालच्युतसम्यक्त्वानां साधिकं वर्षम् । 'सेस' इति असंख्यातकालपतितसंख्यातकालपतितानाम् 'संखसमा' इति "व्याख्यानतो विशेषप्रतिपत्तिः" इति न्यायात् संख्यातसमासहस्त्राणि ११ । अन्तरद्वारे सान्तरं सिध्यताम् १२ । अनुसमयद्वारे निरन्तरं सिध्यताम् १३ । गणनाद्वारे एककानामनेककानां च सिध्यतां उत्कृष्टमन्तरं संख्येयानि वर्षसहस्त्राणि १४ ॥ २८ ॥ उपसंहरन्नाह इअ गुरुअंतरमुत्तं, लहु समओ ६ भावु सव्वहिं खइओ ७ । इत्येवं 'जंबुद्दीये धायई' इत्यादिपूर्वोक्तप्रमाणेन गुरुमुत्कृष्टमन्तरं सिद्धिगमनविरहकाले उक्तम् । लघु जघन्यमन्तरं सर्वत्र पञ्चदशस्वपि द्वारेषु एकसमयः ६ । इत्युक्तं मौलं षष्ठमन्तरद्वारम् । संप्रति भाव

Loading...

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210