Book Title: Siddha Prabhrutam Satikam
Author(s): Parshwaratnasagar
Publisher: Omkarsuri Jain Gyanmandir
View full book text
________________
परिशिष्ट-१
१६९
हिमवंते हेमवए, महहिमवं कुरुसु हरि निसढ भरहे । संखगुणा य विदेहे, जंबुद्दीवे समा सेसे ॥ ३३ ॥
समुद्रे द्वीपे च सिद्धाः यथाक्रमं स्तोकाः संख्यातगुणाश्च । तथा जलसिद्धाः स्तोकाः, तेभ्यः संख्यातगुणाः स्थलसिद्धाः तथा ऊर्ध्वलोकसिद्धाः स्तोकाः, तेभ्योऽधोलोकसिद्धाः संख्येगुणाः, तेभ्योऽपि तिर्यग्लोकसिद्धाः संख्येयगुणाः ॥ ३१ ॥ लवणे सिन्धौ सिद्धाः स्तोकाः, तेभ्यो यथोत्तरं कालोदादौ सिद्धाः संख्येयगुणाः ॥ ३२ ॥ जम्बूद्वीपे हिमवत्सिद्धाः स्तोकाः, ततो हैमवते संख्येयगुणाः, ततो महाहिमवति, ततो देवकुरुषु, ततो हरिवर्षे, ततो निषधे, ततो भरते, स्वस्थानत्वात् ततो विदेहे संख्येयगुणाः सदाभावात् महत्त्वाच्च । 'समा सेसे' इति समास्तुल्याः शेषे, जातावेकवचनम् । शेषेषु क्षेत्रेषु तुल्यायामविस्तरेषु । इयमत्र भावना-शिखरिणि हिमवत्तुल्याः, हैरण्यवते हैमवत्तुल्याः, रूपिणि महाहिमवत्तुल्याः, उत्तरकुरुषु देवकुरुतुल्याः, रम्यके हरिवर्षतुल्याः, नीलवति निषधतुल्याः, ऐरवते भरततुल्याः सिद्धाः । हेतुः सर्वत्र क्षेत्रतुल्यबाहुल्यमेव ॥ ३३ ॥
चुल्ल महहिमव निसढे, हेम कुरू हरिसु भारह विदेहे । चउ छठे साहीया, धायइ सेसा उ संखगुणा ॥ ३४ ॥ पुक्खरवरेऽवि एवं, चउत्थठाणंमि नवरि संखगुणा । एसुं संहरणेणं, सिझंति समा य समगेसु ॥ ३५ ॥
धातकीखण्डे क्षुद्रहिमवति सिद्धाः स्तोकाः १ ततो महाहिमवति संख्यातगुणाः २ ततो निषधे संख्यातगुणाः ३ ततो हैमवते विशेषाधिकाः ४ ततो देवकुरुषु संख्यातगुणाः ५ ततो हरिवर्षे
1. 'ऐरण्यवते' इत्यपि । 2. रुक्मिणि ॥

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210