Book Title: Siddha Prabhrutam Satikam
Author(s): Parshwaratnasagar
Publisher: Omkarsuri Jain Gyanmandir

View full book text
Previous | Next

Page 189
________________ १७२ सिद्धप्राभृत : सटीकः अवसर्पिण्यां संहरणतो दुःषमदुःषमाया सिद्धाः स्तोकाः १ दुःषमायां संख्यातगुणाः २ तेभ्यः सुषमदुःषमायामसंख्येयगुणाः कालस्यासंख्येयत्वात् ३ 'पण छटे अहिआ' इति ततः पञ्चमारके सुषमाभिधे 'अधिका' विशेषाधिकाः ४ ततः षष्ठे सुषमसुषमाख्ये विशेषाधिकाः ५ तेभ्यः 'तुरीये' चतुर्थे दुःषमसुषमारके सिद्धाः संख्यातगुणाः ६ । ३८ ॥ एवमवसर्पिण्या अरकेषु गणितम् । उत्सप्पिण्या अरकेष्वप्येवमेव ज्ञेयम् । 'मीसेवि' इति अवसर्पिण्युत्सर्पिणीरूपे मिश्रेऽप्येवमेव, परं केवलमयं विशेष:-उत्सर्पिणीदुःषमारके 'अधिका' विशेषाधिका वाच्याः । द्वयोरप्यवसर्पिण्युत्सर्पिण्योः शेषेष्वरकेषु 'समाः' तुल्या वाच्याः । इदमुक्तं भवति-द्वयोरप्येकान्तदुःषमासिद्धाः सर्वस्तोकाः १ तत उत्सर्पिणीदुःषमारके सिद्धा विशेषाधिकाः २ ततोऽवसर्पिण्यां दुःषमासिद्धाः संख्येयगुणाः ३ ततो द्वयोरपि सुषम दुःषमासिद्धा असंख्येयगुणाः ४ तेभ्योऽपि द्वयोरपि सुषमासिद्धा विशेषाधिकाः ५ तेभ्योऽपि द्वयोरपि सुषमसुषमासिद्धा विशेषाधिकाः ६ तेभ्योऽपि द्वयोरपि दुःषमसुषमासिद्धाः संख्येयगुणाः ७ ततोऽवसर्पिण्यां सर्वसिद्धाः संख्येयगुणाः ८ तेभ्योऽप्युत्सर्पिण्या: सर्वसिद्धा विशेषाधिकाः ९ । २ ॥ ३९ ॥ गतं कालद्वारम्, संप्रति गतिद्वारमाह थी १ नर २ नरय ३ तिरित्थी ४, तिरि ५ देवी ६ देव ७ थोव १ संखगुणा ६ । इग १ पणिदि २ थोव १ संखा २, तरु १ भू २ जल ३ तसिहि ४ संखगुणा ॥ ४० ॥ चउ १ ति २ दुग ३ नरय तरु ४, महि ५ जलक्ष्भवण ७ । ८ वणिंद ९।१० जोइ ११ देविसुरा १२ ।

Loading...

Page Navigation
1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210