Book Title: Siddha Prabhrutam Satikam
Author(s): Parshwaratnasagar
Publisher: Omkarsuri Jain Gyanmandir
View full book text
________________
१७०
सिद्धप्रामृत : सटीकः विशेषाधिकाः ६ ततो भरते संख्यातगुणाः ७ । 'भारह' इति सूत्रे आकारः 'अतः समृद्धादौ वा' इति प्राकृतसूत्रे पाठः । ततो विदेहेषु संख्यातगुणाः ८ । क्षेत्रबाहुल्यात्स्वस्थानत्वाच्च 'चउ छठे साहीया' इत्यादि भावितमेव ॥ ३४ ॥ पुष्कराद्धेऽप्येवं धातकीखण्डवद् ज्ञेयम् । केवलमियान् विशेष:-चतुर्थस्थाने हैमवतलक्षणे संख्यातगुणा वाच्याः । ननु हिमवदादिषु मनुष्योत्पत्यभावात् कथं सिद्धिसंभवः ? इत्याह'एसुं संहरणेणं' इति एषु हिमवदादिषु संहरणेन देवादिसंहरणमधिकृत्य सिध्यन्तीति । यद्येवं शिखरिगिर्यादिषु तर्हि सिध्यतां का वार्ता ? इत्याह-'समा य समगेसु' इति समास्तुल्याः समकेषु समक्षेत्रपर्वतेषु । यथा हैमवतस्य हैरण्यवतस्य च तुल्याः । देवकुरूणामुत्तरकुरूणां चेत्यादि । तथा हिमवतः शिखरितुल्याः । महाहिमवतो रूप्यितुल्या इत्यादि ॥ ३५ ॥ अथ सर्वक्षेत्रपर्वतादिसमवायेनाल्पबहुत्वमाह गाथाद्वयेन
जंबु निसहंत मीसे, जं भणि पुव्वमहिअ बीअहिमे । दुति महहिम हिमवंते, निसढ महाहिमवबिअहिमवे ॥ ३६ ॥ तिअनिसहे बिअकुरुसुं, हरिसु अ तह तइअहेमकुरु हरिसु । दुदु संख एग अहिआ, कमभरहविदेहतिग संखा १ ॥३७ ॥
अत्रैवं पदघटना-'मीसे' इति क्षेत्रद्विकादियोगे 'जंबु' इति जम्बूद्वीपे हिमवदादिनिषधान्तं यद्भणितं पूर्वं तत्तथैव ज्ञेयम् । तथाहिजम्बूद्वीपसत्के हिमवति सिद्धाः स्तोकाः १ ततो हैमवते संख्यातगुणाः २ ततो महाहिमवति ३ ततो देवकुरुषु ४ ततो हरिवर्षे ५ ततो निषधे संख्येयगुणाः ६ ततः 'अहिअ' इति विशेषाधिकाः 'बीअहिमे' इति द्वितीयहिमवति धातकीखण्डहिमवतीत्यर्थः ७ । 'दु ति महहिम हिमवंते' इति ततो द्वितीयमहाहिमवति धातकीसत्के इत्यर्थः ८ । तृतीये

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210