Book Title: Siddha Prabhrutam Satikam
Author(s): Parshwaratnasagar
Publisher: Omkarsuri Jain Gyanmandir
View full book text
________________
१६८
सिद्धप्रामृत : सटीकः द्वारमाह-सर्वत्र सर्वद्वारेषु भावः क्षायिक एव ७ । संप्रत्यल्पबहुत्वद्वारमाह
चउ दस वीसा वीसप्पहुत्त अट्ठस्सयं कमसो ॥ २९ ॥ सम थोव समा संखागुणिआ इय भणिअणंतरा सिद्धा । अह उ परंपरसिद्धा, अप्पबहुं मुत्तु भणिअत्था ३० ॥
'चउ दस' इत्यादि । तत्र ये तीर्थकरा ये च जले ऊर्ध्वलोकादौ चत्वारश्चत्वारः सिध्यन्ति, ये च हरिवर्षादिषु संहरणतो दश दश सिध्यन्ति, ते परस्परं समास्तुल्याः । तथैवोत्कर्षतो युगपदेकसमयेन प्राप्यमाणत्वात् । तेभ्यो विंशतिसिद्धाः स्तोकाः तेषा स्त्रीषु दुःषमायामेकस्मिन् विजये वा प्राप्यमाणत्वात्, तैस्तुल्या विंशतिपृथक्त्वसिद्धाः । यतस्तेऽधोलौकिकग्रामेषु । बुद्धीबोधितस्त्र्यादिषु वा लभ्यन्ते, ततो विंशतिसिद्धैस्तुल्याः । क्षेत्रकालयोः स्वल्पत्वात्कादाचित्कत्वेन च संभवादिति । तेभ्योऽष्टशतसिद्धाः संख्यातगुणिताः संख्येयगुणाः इत्यर्थः । गतमल्पबहुत्वद्वारम् । इत्येवं प्रागुक्तप्रकारेणानन्तराः सिद्धाः भणिताः । अथानन्तरं पुनः परम्परासिद्धा भणितव्याः । ते पुनरल्पबहुत्वं मुक्त्वा भणितार्थाः । अयं विशेष:-द्रव्यप्रमाणे सर्वेष्वपि द्वारेषु सर्वत्रैवानन्ता वक्तव्याः । क्षेत्रस्पर्शने प्रागिव । कालः पुनरनादिरूपोऽनन्तो वक्तव्यः, अत एवासंभवादन्तरं न वाच्यम् ॥ २९ ॥ ३० ॥ संप्रति अवशिष्टमल्पबहुत्वं उच्यते
सामुद्द दीव जल थल, थोवा संखगुण थोव संखगुणा । उड्ड अह तिरिअलोए, थोवा दुन्नि पुण संखगुणा ३१ ॥ लवणे कालोअम्मि य, जंबुद्दीवे अ धायईसंडे । पुक्खरवरदीवड्डे, कमसो थोवा उ संखगुणा ॥ ३२ ॥

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210