Book Title: Siddha Prabhrutam Satikam
Author(s): Parshwaratnasagar
Publisher: Omkarsuri Jain Gyanmandir

View full book text
Previous | Next

Page 183
________________ १६६ सिद्धप्राभूत : सटीकः संख्यं संख्यातसमासहस्त्राणि पूर्वसहस्त्रपृथक्त्वम्, 'अणंत' इति अनन्तकालः, समधिकं च वर्षमुत्कृष्टमन्तरम् ५ । 'पुव्वासहसपिहू' इत्यत्र पूर्वशब्दस्य दीर्घत्वम् । 'दीर्घहस्वौ मिथो वृत्तौ' इति सूत्रेण ॥ २४ ।। संखसमसहस गिहि अनलिंगहिअ वरिस तिचरण सलिंगे। सेसचरित्ते जुअली, ६ । ७ बुहबोहि अ पुरिस वरिसहिअं ॥ २५ ॥ संखसमसहस सेसा, पुव्वसहस्सप्पहुत्त संबुद्धे ८ । मइ सुअपलियअसंखो, भागोहिजुएऽहिअंबरिसं ॥२६॥ सेसदुभंगे संखा, समसहसा ९ गुरुलहूइ जवमझे । सेढीअसंखभागो, मज्झवगाहे वरिसमहिअं१०॥२७॥ लिङ्गद्वारे गृहिलिङ्गेऽन्यलिङ्गे च संख्यातसमासहस्त्राणि । स्वलिङ्गे च वर्ष समधिकम् ६ । चारित्रद्वारे 'तिचरण' इति चारित्रत्रये सामायिकसूक्ष्मसंपरायथाख्यातस्वरूपे समधिकं वर्षम्, शेषचारित्रे च्छेदोपस्थापनपरिहारविशुद्धियुक्ते पूर्वोक्तचारित्रत्रये । किमुक्तं भवतिसामायिकच्छेदोपस्थापनसूक्ष्मसंपराययथाख्यातचारित्रिणां सामायिक च्छेदोपस्थापनपरिहारविशुद्धिसूक्ष्मसंपराययथाख्यातचारित्रिणां च 'जुअली' इति युगलिकालोऽष्टादशातरकोटाकोट्यः किञ्चिदूनाः । यत एते चरणे भरतैरावतेषु प्रथमचरमतीर्थकरतीर्थ एव प्राप्येते, तत्र चेदमन्तरमुत्कर्षतो लभ्यत इति ७ । बुद्धद्वारे बुद्धबोधितानां पुरुषाणां समधिकं वर्षम् । सूत्रे च 'तिचरण सलिङ्गे' इति द्वारव्यत्ययो गाथाबन्धानुलोम्यादिति ज्ञेयम् ॥ २५ ॥ 'सेसा' इति षष्ठ्यर्थे प्रथमा । ततः शेषाणां बुद्ध

Loading...

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210