Book Title: Siddha Prabhrutam Satikam
Author(s): Parshwaratnasagar
Publisher: Omkarsuri Jain Gyanmandir

View full book text
Previous | Next

Page 181
________________ सिद्धप्राभृत: सटीकः नपुंसकवेदाः प्रत्येकं चतुरश्चतुरः समयान् । पुरुषेभ्य उद्धृत्य पुरुषा एव सन्तः सिध्यन्तोऽष्टौ समयान् यावत् । शेषेषु चाऽष्टभङ्गेषु चतुरश्चतुरः समयान् ४ । तीर्थद्वारे तीर्थकरतीर्थे तीर्थकरीतीर्थे चातीर्थकरसिद्धा उत्कर्षतोऽष्टौ समयान् । तीर्थकरस्तीर्थकर्यश्च द्वौ समयौ ५ । लिङ्गद्वारे स्वलिङ्गेऽष्टौ समयान्, अन्यलिङ्गे चतुर: समयान्, गृहिलिङ्गे द्वौ समयौ ६ । चारित्रद्वारे अनुभूतपरिहारविशुद्धिकचरित्राश्चतुरः समयान् । शेषा अष्टावष्टौ समयान् ७ । बुद्धद्वारे स्वयंबुद्धा द्वौ समयौ, बुद्धबोधिता अष्टौ समयान्, प्रत्येकबुद्धा बुद्धीबोधिताः स्त्रियो नरादयो वा सामान्यतः प्रत्येकं चतुरः समयान् ८ । ज्ञानद्वारे मतिश्रुतज्ञानिनो द्वौ समयौ, मतिश्रुतमनःपर्यायज्ञानिनश्चतुरः समयान्, मतिश्रुतावधिज्ञानिनो मतिश्रुतावधिमनःपर्यायज्ञानिनो वाष्टावष्टौ समयान् ९ । अवगाहनाद्वारे उत्कृष्टायां जघन्यायां चावगाहनायां द्वौ द्वौ समयौ, यवमध्ये चतुरः समयान्, मध्यमावगाहनायां पुनरष्टौ समयान् १० । उत्कृष्टद्वारे अपतितसम्यक्त्वा द्वौ समयौ संख्येयकालप्रतिपतिता असंख्येयकालप्रतिपतिताश्च चतुरश्चतुर: समयान्, अनन्तकालप्रतिपतिता अष्टौ अष्टौ समयान् ११ । इत्यन्तरादीनि चत्वारि द्वाराणि नेहावतरन्ति ॥ १९ ॥ गतं मौलं पञ्चमं काल इति द्वारम् । सांप्रतं षष्ठमन्तरद्वारमाह १६४ जंबुद्दीवे धायइ, ओह विभागे य तिसु विदेहेसु । वासपहुत्तं अंतर, पुक्खरदुविदेह वासहियं १ ॥ २० ॥ क्षेत्रविभागे 'ओह' इति सामान्येन जम्बूद्वीपे धातकीखण्डे च विभागेन विशेषचिन्तायां जम्बूद्वीपसत्के एकस्मिन् विदेहे द्वयोश्च धातकीखण्डसत्कयोरेवं त्रिषु विदेहेषु उत्कृष्टं वर्षपृथक्त्वमन्तरं सिद्धिगमनलक्षणम् । तथा पुष्करवरद्वीपार्द्धे ओघेन विभागेन च तद्विदेहयोश्च वर्षमधिकमन्तरमिति १ ॥ २० ॥

Loading...

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210