Book Title: Siddha Prabhrutam Satikam
Author(s): Parshwaratnasagar
Publisher: Omkarsuri Jain Gyanmandir

View full book text
Previous | Next

Page 180
________________ परिशिष्ट-१ १६३ क्षेत्रद्वारे लोकाग्रे सिद्धशिलातललक्षणे सिद्धाः स्थिताः । इह मनुष्यक्षेत्रे बुन्दि शरीरं सर्वपरिशाटेन त्यक्त्वा; अलोके प्रतिहता लग्ना न परतोऽपि गमनं संभवति, धर्मास्तिकायाभावादिति ३ । स्पर्शनाद्वारे स्पृशत्यनन्तान् सिद्धान् स विवक्षितसमयसिद्धः । सर्वप्रदेशैर्जीवसंबन्धिभिर्ये तु तद्देशप्रदेशैः स्पृष्टास्तेऽसंख्येयगुणाः । "फुसइ अणंते सिद्धे, सव्वपएसेहिँ नियमसो सिद्धो । तेऽवि असंखिज्जगुणा, देसपएसेहिँ जे पुट्ठा १" ४ ॥ १८ ॥ जत्थट्ठसयं सिज्झइ, अट्ठ उ समया निरंतरं तत्थ । वीस दसगेसु चउरो, दु सेसि जवमज्झि चत्तारि ५ ॥१९॥ कालद्वारे चेयं परिभाषा सर्वेषु द्वारेषु यत्र यत्र स्थानेऽष्टशतं सिध्येत् एकसमयेनोक्तम्, तत्र तत्राष्टौ समयान् यावनिरन्तरं कालो वाच्यः । यत्र यत्र विंशतिस्तत्र तत्र चतुरः समयान् यावनिरन्तरं सिद्धिकालो वाच्यः । यत्रापि दश दश एकसमयेन सिध्यन्त उक्तास्तत्रापि चतुरः समयान् यावनिरन्तरं कालः । शेषेषु स्थानेषु द्वौ समयौ। यवमध्ये चत्वारः । इदं संक्षिप्ततरमुक्तम् । संप्रत्येतदेव मन्दमतिविनेयानुग्रहार्थं सविस्तरं पञ्चदशस्वपि द्वारेषु तदेव चिन्तयामः-तत्र क्षेत्रद्वारे पञ्चदशस्वपि कर्मभूमिष्वष्टौ समयान् यावनिरन्तरं सिद्ध्यन्तः प्राप्यन्ते । हरिवर्षादिष्वधोलोके च चतुरश्चतुरःसमयान् । नन्दनपण्डकवनयोर्लवणाब्धौ च द्वौ द्वौ समयौ १ । कालद्वारे उत्सर्पिण्यामवसर्पिण्यां च प्रत्येकं तृतीयचतुर्थारकयोरष्टवष्टौ समयान् शेषेषु चतुरश्चतुरः समयान् २ । गतिद्वारे देवगतेरागता अष्टौ समयान्, शेषगतिभ्य आगताश्चतुरः समयान् ३ । वेद द्वारे पुरुषवेदा अष्टौ समयान् । स्त्री 1. इतोऽग्रे 'संख्यामधिकृत्य द्वितीयचतुर्थसमयादिषु अष्टशतं न्यूनमेव भवतीति ज्ञेयम्' इति लभ्यतेऽधिकम् ॥

Loading...

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210