Book Title: Siddha Prabhrutam Satikam
Author(s): Parshwaratnasagar
Publisher: Omkarsuri Jain Gyanmandir

View full book text
Previous | Next

Page 178
________________ परिशिष्ट - १ चारित्रिणाम्, सामायिकच्छेदोपस्थापनीयसूक्ष्मसंपराययथाख्यातचारित्रिणां च प्रत्येकमष्टशतम् ॥ १४ ॥ परिहारविशुद्धिपदयुते भङ्गे दश दश । इदमुक्तं भवति - सामायिकपरिहारविशुद्धिसूक्ष्मसंपराययथाख्यातचारित्रिणाम्, सामायिकच्छेदोपस्थापनीयपरिहारविशुद्धिकसूक्ष्मसंपराययथाख्यातचारित्रिणां दश दश ७ । बुद्धद्वारे बुद्धीबोधिताः स्त्रियोविंशतिरेकसमयेन सिध्यन्ति । तथा बुद्धीबोधितजीवानां पुंस्त्रीषण्ढविशेषितानां विंशतिपृथक्त्वम् । अयं च सिद्धप्राभृतोक्तो विशेषः । बुद्धबोधितानां पुरुषाणामष्टशतम् । स्त्रीणां विंशतिः । नपुंसकानां दशकम् । प्रत्येकबुद्धानां दशकम् ८ । ज्ञानद्वारे पूर्वभावमपेक्ष्य मतिश्रुतज्ञानिनश्चत्वारः । मतिश्रुतामन: पर्यायज्ञानिनो दश । शेषभङ्गद्विके मतिश्रुतावधिज्ञानिनो मतिश्रुतावधिमनःपर्यायज्ञानिन इत्येवंलक्षणे 'ओहो' इति अष्टशतं सिध्यतीति ९ ॥ १५ ॥ मझे गुरु लहुवगाहण, अडर्सय दुर्ग चडेर अट्ठ जवमज्झे १० । चुअणंतकालसम्मा, अडसय चउ अचुअ दस सेस ११ । १२।१६ ॥ अवगाहनाद्वारे मध्यावगाहनायामष्टशतम् । उत्कृष्टायां द्वौ । लघ्व्यां चत्वारो युगपत्सिद्यन्तीति । अष्टौ यवमध्ये । यवमध्यं नाम उत्कृष्टावगाहनायाः पञ्चविंशत्यधिकपञ्चशतधनूरूपाया अर्धं द्विषष्टयुत्तरद्विशतधनूंषि । एवमग्रेऽपि समार्धस्य यवमध्यमिति संज्ञा ज्ञेया १० । उत्कृष्टद्वारे अनन्तकालच्युतसम्यक्त्वा अष्टशतम् । अच्युतसम्यक्त्वा - श्चत्वारः । शेषा असंख्यातकालच्युतसम्यक्त्वाः, संख्यातकालच्युतसम्यक्त्वाश्च प्रत्येकं दश दश सिध्यन्ति ११ । अन्तरद्वारेऽल्पविषयत्वात्सूत्रे - ऽनुक्तमपि दर्श्यते । अन्तरद्वारे एको वा सान्तरः सिध्यति । बहवो वा तत्र बहवो यावदष्टशतम् १२ ॥ १६ ॥ अॅड. १०८ दुरहिअ १०२ सय छेनुई, चुलसी दुर्गेसरि सट्ठि अडयाला । १६१

Loading...

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210