________________
१६०
सिद्धप्रामृत : सटीकः दश दश २ । गतिद्वारे नरकत्रिकात् रत्नशर्करावालुकाप्रभालक्षणात् भवन-पत्यादिभ्य आगता दश दश सिध्यन्ति ॥ ११ ॥ वैमानिकेभ्योऽत्रागता अष्टशतम् । वनस्पतिभ्यः षट् । पङ्कप्रभायाश्चतुर्थनरकपृथिव्याः पृथिव्यप्कायाभ्यां च प्रत्येकं चत्वारः । ज्योतिष्कादीनां त्रयाणां स्त्रीभ्यो विंशतिविंशतिः; व्यन्तरस्त्रीभ्यो भवनपतिस्त्रीभ्यश्चागताः पञ्च पञ्च सिध्यन्तीति शेषः । जघन्यतो नरकत्रिकादिषु एको वा द्वौ वा त्रयो वा । उत्कर्षतो दशेति सर्वत्र ३ ॥ १२ ॥
वीसत्थि दस नपुंसग, पुरिसट्ठसयं नरा नरुव्वट्टा । इय भंगे अट्ठसयं, दस दस सेस? भंगेसु ४ ॥ १३ ॥
वेदद्वारे स्त्रियो विंशतिः, इत्यादि । तथा नरा देवादिपुरुषाः नरेभ्यो देवादिपुरुषेभ्य उद्वृत्ता इति आद्यो भङ्गः १, स्त्रीभ्यो नराः २, पण्डेभ्यो नराः ३ इति भङ्गत्रयम् । एवं स्त्रीनपुंसकयोरपि भङ्गत्रयम् । सर्वे नव । तत्राद्यभङ्गे अष्टशतम् । शेषेषु अष्टभङ्गेषु दश दश ४ ॥ १३ ॥
तिर्थयरी जिंण पत्तेअंबुद्ध संबुद्ध १ चउँ दसै चउरो ५ । चउ दस अडर्सय गिहिपर, सलिंग ६ परिहार विणुओहो ॥१४॥ दस परिहारजुए ७ बुद्धिबोहिथी वीस जीव वीस पहू ८ । चउ मइसुअ मइसुअमणनाणे दस सेसे दुगिओहो ९ ॥ १५ ॥
तीर्थद्वारे तीर्थकर्यः १ जिनाः २ प्रत्येकबुद्धाः ३ स्वयंबुद्धाश्च ४ एकसमयेन सिध्यन्ति यथासंख्यं द्वौ चत्वारो दश चत्वारः । उपलक्षणत्वादष्टशतमतीर्थकृताम् ५ । लिङ्गद्वारे गृहि १ पर २ स्व ३ लिङ्गे यथाक्रमं चत्वारो दशाष्टशतम् ६ । चारित्रद्वारे 'परिहार विणु ओहो' इति यत्र यत्र चारित्रभने परिहारविशुद्धिपदं न भवति तत्र तत्र ओघोऽष्टशतं सिध्यन्तीति ज्ञेयम् । इदमुक्तं भवतिसामायिकसूक्ष्मसंपरायथाख्यात